________________
काव्यादर्श
कण्ठे कालः करस्थेन कपालिनेन्दुशेखरः। जटाभिः स्निग्धताम्राभिराविरासीत् वृषध्वनः॥१२ जातिक्रियागुणद्रव्यखभावाख्यानमीदृशम् । शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितम् ॥१३ यथा कथञ्चित् सादृश्यं यवोद्भूतं प्रतीयते। अङ्गेषु रोमाञ्चं बनन् जनयन् मनसि नितिं सातिशयानन्दं कुर्वन् तथा नेत्रे मिमौलयन् मुद्रयंव प्रवर्त्तते प्रसरति। अत्र लणे गुणः ॥ ११ ॥
द्रव्योदाहरणं दर्शयति कण्ठ इति। कण्ठ कण्ठदेशे काल: नौलः कण्ठ कालशब्द: अलुक्तत्पुरुषनिष्पनः । करस्थेन कपालेन स्निग्धताम्राभिः जटाभिरिति च विशेषणे द्वतीया। इन्दुशेखरः चन्द्रचूड़ः वृषध्वज आविरासौदित्यन्वयः । अत्र वृषध्वजशब्दो द्रव्यवाचकः संज्ञाशब्दस्य द्रव्यवाचकत्वात् इति वृषध्वजगतासाधारणधर्मस्य कीर्तनात् द्रव्यगता स्वभावोक्तिरिति ॥ १२ ॥ __स्वभावोक्तिमुपसंहरबाह जातीति। अत्र द्रव्यपदेन संज्ञावाचकचैत्रमैनादौनां ग्रहणं न तु क्षित्यादेः तस्य जातिपदेन एव उपादानात् । जातिक्रियागुणद्रव्याण स्वभावाख्यानं स्वभावोक्तिः ईदृशम् एवम्प्रकारम् अनयैव रौत्या स्वभावो वर्णनीय इति भावः। अस्यैव अलङ्कारस्य शास्त्रेषु काव्यतन्वेषु साम्राज्यम् आधिपत्यं काव्यशास्त्रषु अस्यैव बहुलप्रचार इत्यर्थः एतच काव्येषु ईप्सितं प्रियं कवीनामिति शेषः, कवयः सभावोक्तिमेव विशेषेण आद्रियन्ते इति भावः ॥ १३ ॥
उपमां निरूपयति यथेति। यत्र काव्यधर्मे यथाकथञ्चित्