SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छदः । उपमा नाम सा, तस्याः प्रपञ्चोऽयं निदर्श्यते ॥ १४ ॥ अम्भोरुहमिवाताम्म्रं मुग्धे ! करतलं तव । इति धर्मोपमा साचात् तुल्यधर्मप्रदर्शनात् ॥ १५ ॥ राजीवमिव ते वक्त नेत्रे नीलोत्पले दूव । इयं प्रतीयमानैकधर्मा वस्तूपमैव सा ॥ १६ ॥ येन केनापि प्रकारेण उद्भ ूतं सादृश्यं प्रतीयते सा उपमा नाम, तथाच काव्यनिविष्टमलौकिक चमत्कारजनकं सादृश्यमुपमेति तात्पर्यं चमत्कारित्वासद्भावे नायमलङ्कारः यथा गौरव गवय इत्यादि । उक्तञ्च रसगङ्गाधरे, सादृश्यं सुन्दरं वाक्यार्थोपस्कारकम् उपमालङ्घतिरिति । व्याख्यातञ्च तत्रैव सुन्दरमिति सादृश्यविशेषणं सौन्दर्य्यचमत्कृत्याधायकत्वं चमत्कृतिश्च आनन्दविशेष इति । तस्याः प्रपञ्चः विस्तरः विविधभेदः अयं वक्ष्यमाणरूपः निदर्श्यते प्रदर्श्यते ॥ १४ ॥ धर्मोपमाख्यभेदमुदाहरति अम्भोरुहमिति । हे मुग्धे ! तव करतलम् अम्भोरुहमिव कोकनदमिव आताम्रम् आलोहितम् । इति उक्तवाक्ये साक्षात् श्राताम्म्रमिति पदोपात्तस्य तुल्यधर्मस्य साधारणधर्मस्य आताम्रत्वस्य प्रदर्शनात् कीर्त्तनात् धर्मोपमा ॥ १५ ॥ वस्तूपमां लचयति राजीवमिति । ते तव वक्त्रं मुखं राजीवं पद्ममिव तथा नेत्रे नौलोत्पले इवं । प्रतीयमानः गम्यमानः न तु अभिधीयमानः एकः सामान्यः धर्मः यस्यां सा तथाविधा इयम् अलङ्गतिः वस्तूपमा एव वस्तुनोरुपमानोपमेययोः एवोपादानात्। एवञ्च सामान्यधर्माप्रयोगेऽपि स्फुट
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy