________________
ક્રૂર
काव्यादर्शे
तवाननमिवोन्निद्रमरविन्दमभूदिति । सा प्रसिद्धिर्विपर्य्यासात् विपर्य्यासोपमेष्यते ॥१७॥ तवाननमिवाम्भोजमम्भोजमिव ते मुखम् । इत्यन्योन्योपमा सेयमन्योन्योत्कर्षशंसिनी ॥ १८ ॥ मौपम्यप्रत एव इयमलङ्कृतिः न तु स्फुटप्रतीतौ इति बोद्धव्यम् ॥ १६ ॥
विपय्यासोपमां लक्षयति तवेति । उन्निद्रम् अरविन्दं तवाननमिव उन्निद्रं विकसितमभूत् । इत्यत्र प्रसिद्धेः विपय्यासात् वैपरीत्यात् सा प्रसिद्धा विपय्यासोपमा इष्यते कविभिरिति शेषः । तथाच प्रस्तुतानां मुखादीनाम् उपमेयत्वम् अप्रस्तुतानां चन्द्रादीनाम् उपमानत्वमेव प्रसिद्धिः । तां विहाय प्रस्तुतानां मुखादौनाम् अत्युत्कर्षप्रतिपादनाय उपमानत्वस्य चन्द्रादीनाञ्च उपमेयत्वस्य च कल्पनं विपय्यासोपमा इति बोद्धव्यम् । दर्पणकारस्तु इयं प्रतीपालङ्कार इत्याह । यथा, प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् । निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥ इति । उदाहृतञ्च तेनैव,, यत्त्ववेत्त्रसमानकान्तिसलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये ! तव मुखच्छायानुकारी शशी । येऽपि त्वगमनानुकारिगतयस्वे राजहंसा गतास्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते
॥ १७ ॥
व
अन्योन्योपमां निरूपयति तवेति । अम्भोजं 'तव आननमित्र, ते मुखम् अम्भोजमिव । इत्यत्र अन्योन्यस्य परस्परस्य अम्भोजोपमानत्वेन मुखस्य मुखोपमानत्वेन अम्भोजस्य दत्यर्थः यः उत्कर्षः वैचित्रं तस्य शंसिनी सूचयित्री सा प्रसिद्धा इयम्