________________
हितीयः परिच्छेदः। ६३ त्वन्मुखं कमलेनैव तुल्यं नान्येन केनचित् ।। इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा ॥ १६ ॥ पद्म तावत् तवान्वेति मुखमन्यच्च तादृशम् । अस्ति चेदस्तु तत्कारीत्यसाबनियमोपमा ॥ २० ॥ समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव । ह्लादनाख्येन चान्वेति कर्मणेन्दमितीदृशौ ॥२१॥
अन्योन्योपमा, एतेन पर्यायेण उपमानोपमेयभावस्य एव एतत् अलङ्कारविषयत्वमवधेयं तस्यैव वैचित्राजनकत्वात् मुखमम्भोजन तुल्यमित्यादौ तथाप्रतीतौ अपि वैचित्रवाभावात् न अयमलङ्कारः । दर्पणकारस्तु एतामेव उपमेयोपमामाह । यथा, पर्यायेण हयोरेतत् उपमेयोपमा मता इति ॥ १८ ॥
नियमोपमां लक्षयति त्वदिति। तन्मुखं कमलेन एव तुल्यम् अन्येन केनापि नेति अत्र अन्यस्य साम्यं सादृश्यं तस्य व्यावृत्तिः निरासः तस्याः हेतोः इयं सा प्रसिद्धा नियमोपमा, उपमानबाहुल्यम् उपमेयस्यापकर्ष गमयति, तव्याहत्त्वा एकेन प्रकृष्टतमेन सादृश्यकल्पनात् उत्कर्षातिशयः समधिकवैचित्रवम् प्रावहतौति ध्येयम् ॥ १८ ॥
अनियमोपमा निरूपयति पद्ममिति । पचं तावत् तव मुखम् अन्वेति अनुकरोति, अन्यच्च तादृशं पद्मवत् सुन्दरं वस्तु . चन्द्रादि तत्कारि तव मुखानुकारि अस्ति चेत् पस्तु। इत्यव असौ अनियमोपमा पद्मस्य तदन्यस्य च यस्य कस्यचित् अपि उपमेयत्वकल्पनात् कल्पनायाश्च नियमाभावात् इति ॥ २० ॥
समुच्चयोपमामाह, समुच्चय इति। तव मुखं कान्स्यैव