________________
काव्यादरों
त्वय्येव वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः । । इयत्येव भिदा नान्येत्यसावतिशयोपमा ॥ २२ ॥ मय्येवास्या मुखश्रीरित्यलमिन्दार्विकत्वनैः । पद्मऽपि सा यदस्त्येवेत्यसावुत्प्रेक्षितोपमा ॥२३॥
केवलया कान्त्या न, वादनाख्येन प्रवादनजनकेन कर्मणा च चकारः समुच्चयद्योतकः, इन्, चन्द्रम् अन्वेति अनुगच्छति अनुकरोतीत्यर्थः । इति ईदृशी एवम्प्रकारा समुच्चयोपमा अपि अस्ति, ईदृशीत्यनेन केवलगुणकेवलक्रियासमुच्चये वा साधारणसमुच्चयेऽपि वा अयमलङ्कारो बोदव्यः ॥ २१ ॥
अतिशयोपमा निरूपयति त्वयोति। तव मुखं त्वयि एव दृष्टं, चन्द्रमा: दिवि प्राकाशे दृश्यते, इयती आश्रयनिबन्धना एव भिदा प्रभेदः मुखचन्द्रमसोरिति शेषः, न अन्या न गुणक्रियादिक्कता इति भावः, असौ अतिशयोपमा, भिवाश्रयत्वेन प्रौपम्यस्य सातिशयचमत्कारित्वात् । अत्र साम्यमिव आदिशब्दाप्रयोगात् व्यञ्च न च अत्र रूपकध्वनिः आत्रयभेदेन पभेदप्रतीतेरभावादिति ध्येयम् ॥ २२॥
उत्प्रेषितोपमां लक्षयति मयोति। अस्या मुखत्रीः मुखकान्तिः सुखसदृशकान्तिरित्यर्थः मयि एव न अन्यत्र, इन्दोः चन्द्रस्य इति एवं विकथनैः प्रात्मश्लाघनैः प्रलं, यत् यस्मात् सा कान्तिः पद्मऽपि अस्ति पद्ममपि तसदृशकान्तीत्यर्थः असौ उत्प्रेषितोपमा, इन्दौ प्रात्मश्लाघाया प्रतात्त्विकत्वेन नायकस्य चाटूक्त्या तथा सम्भावितत्वात् सम्भावनायाच उत्प्रेक्षात्वात् इति। साम्यञ्च पत्र व्यङ्ग्यम् ॥ २३ ॥