SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ हितीयः परिच्छेदः । ११ यदि किञ्चित् भवेत् पद्मं सुभ्र ! विधान्तलोचनम्। तत् ते मुखश्रियं धत्तामित्यसावद्भुतोपमा ॥२४॥ शशीत्युत्प्रेक्ष्य तन्वनि ! त्वन्मुखं त्वन्मुखाशया । इन्दुमप्यनुधावामौत्येषा मोहोपमा स्मृता ॥२५॥ किं पद्ममन्तर्धान्तालि किं ते लोलेक्षणं मुखम् ? - अद्भुतोपमामाह यदीति। हे सुभ्र ! यदि पद्मं विधान्तलोचनं विचूर्णितनयनं भवेत्, तत् तदा ते तव मुखश्रियं वदनकान्तिं धत्तां धारयतु। इत्यत्र असौ अद्भुतोपमा, यद्यर्थबलेन सादृश्यस्य समधिकचमत्कारद्योतनात्। उक्तच्च, यत्रोपमेयधर्माः स्युरुपमानेऽधिरोपिताः। चमत्कारविधानार्थं तामाहुरङ्ग तोपमाम् ॥ इति । प्रकाशकारस्तु एनामतिशयोक्तिमाह। यथा, निगोर्याध्यवसानन्तु प्रकृतस्य परेण यत् । प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ इति । उदाहृतञ्च विश्वनाथेन यथा, यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरदयम्। तदोपमीयते तस्या वदनं चारुलोचनम् ॥ २४ ॥ मोहोपमा निरूपयति शशौति। हे तन्वणि कशाङ्गि ! तव मुखं शशौति उत्प्रेक्ष्य सम्भाव्य धान्या अभिनं बुद्धा इत्यर्थः तव मुखाशया वदनस्पृहया इन्दुमपि अनुधावामि । इत्यत्र मोहोपमा स्मृता कविभिरिति शेषः, मोहेन इन्दोर्मुखत्वेन ज्ञानात्। तथाचोक्त, प्रतियोगिनमारोप्य तदमेदेन कोर्त्तनम् । उपमेयस्य यन्मोहोपमासो भ्रान्तिमद्दचः ॥ इति । दर्पणकारस्तु एनां भ्रान्तिमदलङ्कारमाह यथा, साम्यादतस्मिंस्तबुदिर्धान्तिमान् प्रतिभोस्थितः इति। साम्यञ्चात्र व्यङ्ग्यम्
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy