________________
建成
काव्यादर्थे
मम दोलायते चित्तमितीयं संशयोपमा ॥ २६ ॥ न पद्मस्येन्दुनियाह्यस्येन्दुलज्जाकरौ द्युतिः । अतस्त्वन्मुखमेवेदमित्यसौ निर्णयोपमा ॥ २७ ॥ शिशिरांशुप्रतिस्पर्द्दि श्रीमत् सुरभिर्गान्धि च । अम्भोजमिव ते वक्वमिति श्लेषोपमा स्मृता ॥२८॥
संयोपमां निरूपयति किमिति । अन्तर्भ्रान्त अलौ यस्य तत् पद्मं किम् ? ते तव लोले चञ्चले ईक्षणे नेत्रे यस्मिन् तत् मुखं किम् ? मम चित्तम् इति इत्थं दोलायते संशेते । इयं संशयोपमा संशयस्य औपम्यपय्र्यवसायित्वात् । दर्पणकारस्तु एनां सन्देहालङ्कारमाह यथा, सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थित इति । अत्रापि साम्यं व्यञ्जनया गम्यते ॥ २६ ॥
निर्णयोपमां निरूपयति नेति । इन्दुना निग्राह्यस्य निग्टहौतस्य तिरस्कृतस्य इत्यर्थः पद्मस्य द्युतिः इन्दुलज्जाकरी न पराजितस्य पराजेतृलज्जाजनकत्वादिति भावः । अतः इदं तव मुखमेव न पद्मं तव मुखस्यैव इन्दुपराजेयत्वात् इति भावः । असौ निर्णयोपमा निर्णयेन उपमानोपमेययोः सादृश्यावगमात् । मुखं वा पद्मं वा इत्यादिसंशयात् परं निश्चयज्ञान एवायमलङ्कारो बोद्धव्यः । उक्तञ्च, उपमेयस्य संशय्य निश्चया ब्रियोपमा इति ॥ २७ ॥
शेषोपमां निरूपयति शिशिरेति । ते वक्त्र ं वदनम् अम्भोजमिव शिशिरांशप्रतिस्पर्द्धि शिशिरांशुः चन्द्रः प्रतिस्पर्धी विरोधौ यस्य तत् श्रीमत् सुश्रीकं तथा सुरभिगन्धि च विशेषणत्रयम् उभयत्र समानम् । अथवा वक्त्रपचे शिशिरांशुप्रति