________________
द्वितीयः परिच्छेदः।
सरूपशब्दवाच्यत्वात् सा समानोपमा यथा। बालेवोद्यानमालेयं सालकाननशोभिनी ॥ २६ ॥ पद्म बहुरजश्चन्द्रः क्षयौ ताभ्यां तवाननम् । समानमपि सोत्सेकमिति निन्दापमा स्मृता ॥३०॥ स्पाईनी या श्रीः शोभा तहत् । इत्यत्र श्लेषोपमा स्मता कविभिरिति शेषः। श्लेषण उपमानोपमेयगततत्तत्साधर्म्यस्य द्योतनात् श्लेषश्च अत्र अर्थश्लेष एव समानोपमायाः शब्दश्लेषविषयत्वादिति ॥ २८ ॥ ___ समानोपमां लक्षयति सरूपेति । सरूपशब्दैः समानरूपैः श्लेषात् भित्रैरपि अभिन्नवत् प्रतीयमानैः शब्दः वाच्यत्वात् साधय॑स्य प्रतिपाद्यत्वात् सा प्रसिद्धा समानोपमा, यथाशब्दः उदाहरणप्रदर्शनार्थः । इयम् उद्यानमाला उपवनराजिः बाला कामिनीव सालकाननशोभिनी सालानां वृक्षभेदानां काननेन वनेन समूहेन इत्यर्थः शोभते इति तथोक्ता, अन्यत्र सालकम् अलकालङ्कतं यत् आननं तेन शोभते इति अत्र साधारणधर्मस्य सालकाननशोभित्वस्य शब्दश्लेषेण द्योतनात् शब्दश्लेषमूलैवेयं दोषगुणालङ्काराणां शब्दार्थगतत्वव्यवस्थितेः शब्दपरिवृत्तिसहत्वासहत्वमेव मूलम् अत्र सालकाननेत्यत्र सर्जकाननेति परिवृत्तौ न श्लेषः, पूर्वत्र शिशिरांशु इत्यत्र शौतगु इति परिवृत्ती . पपि न क्षतिरिति सुधौभिर्भाव्यम् ॥ २८ ॥
निन्दोपमां लक्षयति पद्ममिति। पद्मं बहुरजः परागपूर्ण रजोगुणबहुलच्च, चन्द्रश्च क्षयौ क्षयरोगी, पक्षान्तर क्षयशौलच, अत: आननं समानमपि साधर्म्यान्तरेण तुल्यमपि ताभ्यामिति शेषः सोत्सेकं समधिकोत्कर्षशालि । इत्यत्र निन्दो