________________
काव्याद”
ब्रह्मणोऽप्युद्भवः पद्मश्चन्द्रः शम्भुशिरोधृतः । तो तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते ॥३१॥ चन्द्रेण त्वन्मखं तुल्यमित्याचिख्यासु मे मनः । स गुणो वास्तु दोषो वेत्याचिख्यासोपमा विदुः३२ पमा स्मृता, उपमाननिन्दया साम्यस्य कीर्तनात्। साम्यमात्रपर्यवसायित्वादस्या व्यतिरेकात् भेदः व्यतिरेके तु भेद एव पर्यवसानमिति बोयम् ॥ ३० ॥ .
प्रशंसोपमां निरूपयति ब्राह्मण इति। पद्मः ब्रह्मणोऽपि उद्भवः उत्पत्तिस्थानं नारायणस्य नाभिकमलजातत्वात्, तथा चन्द्रः शम्भुशिरोतः तौ पद्मचन्द्रौ वन्मुखेन तुल्यौ इति पद्मचन्द्रयोः प्रशंसितयोरपि त्वन्मखसादृश्य न प्रशंसातिशयात् मुखस्य च समधिकोल्कर्षव्यञ्जनात् प्रशंसोपमा उच्यते। अत्र मुखस्य उपमेयत्वप्रसिद्धावपि, उपमानत्वकल्पनात् प्रतीपालकारोऽपि। यदुक्तं, प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् । निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥ इत्यनयोः सङ्करः । खमते विपर्यासोपमा च मुखस्योपमानतया प्रसिद्धोपमेय. खण्डनादिति तयोः सङ्कर इति, पद्म इति पुंस्त्वनिर्देशन अप्रयुक्ततादोषश्चेति बोध्यम् ॥ ३१ ॥
आचिख्यासोपमां लक्षयति चन्द्रेणेति। त्वन्मुखं चन्द्रेण तुल्यम् इति आचिख्यासु आख्यातुमिच्छु मे मनः । स आख्या- . नाभिलाषः गुणो वा दोषो वा अस्तु इत्यत्र आचिख्यासोपमां विदुः। आख्यानकामनाविषयत्वेन मुखस्य चन्द्रेण उपमितत्वेऽपि गुणो वा दोषो वा इति कथनम् अधिकचमत्कारित्वं द्योतयतीति बोध्यम् ॥ ३२ ॥