________________
हितीयः परिच्छेदः ।
६६.
शतपत्वं शरच्चन्द्रस्त्वदाननमिति वयम् । परस्परविरोधीति सा विरोधोपमा मता ॥ ३३ ॥ न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितम् ।। कलसिनो जड़स्येति प्रतिषेधोपमैव सा ॥ ३४ ॥ मृगक्षणावं ते वक्त मृगणैवाशितः शशी। तथापि सम एवासी नोत्कर्षीति चटूपमा ।। ३५॥
विरोधोपमा निरूपयति शतपत्रमिति। शतपत्रं पद्म शरच्चन्द्रः शारदीयचन्द्रः तव आननञ्च एतत् वयं परस्परविरोधि अन्योन्यस्पईि शतपत्रे शोभिते चन्द्रस्य मालिन्यं चन्द्र च शोभिते शतपत्रस्य मालिन्यं प्रसिद्ध तवानने शोभिते च इयोरेव मालिन्यं स्यादिति वाग्वैचित्राशालिनी। सा प्रसिद्धा विरोधोपमा ॥ ३३ ॥ __ प्रतिषेधोपमामाह नेति । इन्दोः चन्द्रस्य ते तव मुखेन जातु कदाचित् प्रतिगर्जितुं प्रतिस्पर्दितुं सदृशौभवितुम् इत्यर्थः शक्ति: सामर्थ्य नास्ति, यत: कलङ्गिन: तथा जड़स्य, इत्यत्र प्रतिषेधोपमा सादृश्यप्रतिषेधेन अधिकवैचित्राप्रकटनात् निन्दोपमायां निन्दया, इह तु प्रतिषेधेन इत्यनयोर्भेदः ॥ ३४ ॥
चटूपमा निरूपयति मृगक्षणति । ते वक्त मृमस्य ईक्षणाभ्याम् अवयवविशेषाभ्याम् अकं चिह्नितं, शशी तु मृगण सर्वावयवसम्पनेनेति भावः अङ्कितः । तथापि अधिकसामग्रीसत्त्वेऽपि असौ सम एव तव मुखेनेति शेषः न उत्कर्षी नाधिक वैचिनाजनकः । इत्यत्र चटुः प्रियोक्तिः तइटितत्वात् चटूपमा अत्र सत्यपि उत्कर्ष कारण न उत्कर्ष इति प्रतिपादनात् विशे