________________
काव्यादर्णे
न पद्म मुखमेवेदं न भृङ्गो चक्षुषी इमे । इति विस्पष्टसादृश्यात् तत्त्वाख्यानोपमैव सा ॥३६ चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं तव। आत्मनेवाभवत्तुल्यमित्यसाधारणोपमा ॥ ३७॥ सर्वपद्मप्रभासारः समाहृत दूव क्वचित् । षोक्तिः। तदुक्तं दर्पणकारण, सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा इति तन्मूला च इयं समधिकवैचित्रा द्योतयति नान्यथा, सर्वत्रैवोपमाभेदेषु चाटूक्तिसद्भावादिति ध्येयम् ॥ ३५ ॥ __ तत्त्वाख्यानोपमा लक्षयति नेति । इदं पद्मं न मुखमेव भृङ्गौ भमरौ न इमे चक्षुषी नेत्रे, इति इत्यं विशेषेण सादृश्यस्य स्पष्टत्वात् सुव्यक्तत्वात् सा प्रसिद्धा तत्त्वाख्यानोपमा इयमिति शेषः भ्रमनिरासेन तत्त्वस्य पाख्यानात् निर्णयोपमायां तत्त्वाख्यानस्य संशयपूर्वकत्वम् इह तु भ्रान्तिपूर्वकत्वम् इत्यनयोआंदः ॥ ३६ ॥
असाधारणोपमां लक्षयति चन्द्रेति। तव मुखं चन्द्रारविन्दयोः कान्तिं शोभाम् अतिक्रम्य आत्मनैव तुस्थम् अभवत् इति प्रसाधारणोपमा, चन्द्रपद्मयोः कान्त्यतिक्रमेण प्रकृतस्य मुखस्य पात्मनैव साम्यकोर्त्तनेन च औपम्यस्य असाधारणत्वात् । दर्पणकारस्तु एनामन्वयाख्यमलङ्कारमाह। यथा, उपमानोपमेयत्वमेकस्यैव त्वनन्वय इति । एवञ्च हयोः साम्यमुपमा न तु एकस्य इति बोडव्यम् ॥ ३७॥ ___ अभूतोपमा निरूपयति सर्वेति। त्वदाननं क्वचित् सर्वेषां पद्मानां प्रभासारः कान्तिपुनः समाहृत इव विभाति, इत्यत्र