________________
हितीयः परिच्छेदः।
त्वदाननं विभातीति तामभूतोपमां विदुः ॥३८॥ चन्द्रविम्बादिव विषं चन्दनादिव पावकः । परुषा वागितो वक्त्रादित्यसम्भावितोपमा ॥३६॥ चन्दनोदकचन्द्रांशचन्द्रकान्तादिशीतलः । स्पर्शस्तवेत्यतिशयं बोधयन्ती बहूपमा ॥ ४० ॥
ताम् अभूतोपमा विदुः, प्रभासारसमाहरणस्य तत्त्वतः अभूतत्वात् सम्भावनया औपम्यस्य कीर्तनाच्च। दर्पणकारस्तु इमाम् उत्प्रेक्षालङ्कारमाह। यथा, भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना इति । प्राञ्चस्तु प्रकृते अप्रकृतस्य धर्मिण: सम्भावनमुत्प्रेक्षा, इह तु धर्मस्य सम्भावमया हयोः साम्यमित्यनयोः भेदः ॥ ३८ ॥
असम्भावितोपमां निरूपयति चन्द्रेति। इतः अस्मात् वनात् परुषा वाक् चन्द्रविम्बात् विषमिव, चन्दनात् पावक इव, इति अत्र उपमाभ्यां विषपावकनिःसरणमिव वदनात् परुषवानिःसरणस्य असम्भावित्वात् असम्भावितोपमा ॥३८॥
बहूपमा लक्षयति चन्दनेति । तव स्पर्शः चन्दनवत् उदकवत् चन्द्रांशुवत् चन्द्रकान्तवत् प्रादिपदेन एवंविधपदार्थवत् शीतल इति अतिशयम् अधिकशैत्यम् अधिकवैचिबंध वा बोधयन्ती द्योतयन्ती बहूपमा। एकस्य उपमानबाहुल्यकीर्तनात् बहुपदेन हयोरप्युपमानयोः सद्भावे न इयमुपमा वैचित्रयाणाम् अबाहुल्यात् इति बोध्यम् । दर्पणकारस्तु इमां मालोपमामाह। यथा, मालोपमा यदेकस्योपमानं बहु दृश्यते इति ॥ ४०॥