________________
०२
काव्यादर्श चन्द्रविम्बादिवोत्कीर्णं पद्मग दिवोद्धृतम् । तव तम्बङ्गि ! वदनमित्यसौ बिक्रियोपमा ॥४१॥ पुष्णाातप वाहीव पूषा व्योम्नीव वासरः । विक्रमस्त्वय्यधालक्ष्मीमिति मालोपमा मता॥४२॥ वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते । एकानेकवशब्दत्वात् सा वाक्यार्थोपमा विधा॥४३॥
विक्रियोपमा लक्षयति चन्द्रेति। हे तन्वनि ! तव वदनं चन्द्रविम्बात् उत्कीर्णमिव, अथवा पद्मगर्भात् उद्धृतमिव इति अत्र चन्द्रविम्बपद्मगौं प्रकतीभूतौ वदनस्य प्रस्तुतस्य ताभ्याम् उत्कीर्णत्वात् उद्धृतत्वात् वा विकृतिभावप्रतिपादनात् विक्रियोपमा। उक्तञ्च, उपमेयस्य यत्र स्यादुपमानविकारता। प्रकृतेविक्कते: साम्यात् तामाहुर्विक्रियोपमाम् ॥ इति। अत्र च उत्कीर्णत्वोघृतत्वयोः धर्मयोः उत्प्रेक्षणात् धर्मिणोश्च साम्यप्रतोतरुपमैव न तु उत्प्रेक्षा तस्या धर्मिगतत्वेन कीर्तनात् इति बोध्यम् ॥ ४१ ॥
मालोपमां निरूपयति पुष्णोति। पुणि सूर्ये आतप इव, अङ्गि दिवसे पूषा सूर्य इव, व्योम्नि आकाशे वासरः दिवसः इब विक्रमः त्वयि लक्ष्मी अधात् । इत्यत्र मालायां यथा एकेन पुष्येण अपरस्य पुष्यस्य योगः, तथा उपमानानां परस्परसम्बधात् मालोपमा, एवंविधवैचित्रे एव अस्याः सत्त्वात्, बइपमायाञ्च केवलमुपमानबाहुल्यात् अनयोर्भेदः ॥ ४२ ॥
वाक्यार्थोपमां लक्षयति वाक्यार्थेनेति । वाक्यं पदसमुदायः तस्यार्थः वाक्यार्थः तेन कोऽपि अपरो वाक्यार्थः यदि अनु.