________________
द्वितीयः परिच्छेदः ।
त्वदाननमधीराचमाविर्दशनदीधिति ।
भ्रमद्भृङ्गमित्रालक्ष्यकेसरं भाति पङ्कजम् ॥ ४४ ॥ नलिन्या इव तन्वयास्तस्याः पद्ममिवाननम् । मया मधुव्रतेनेव पायं पायमरम्यत ॥ ४५ ॥ वस्तु किञ्चिदुपन्यस्य न्यसनात् तत्मधर्मणः । साम्यप्रतीतिरस्तौति प्रतिवस्तूपमा यथा ॥ ४६ ॥
मीयते सा वाक्यार्थोपमा, वाक्यार्थयेोरुपमानोपमेयत्वकौर्त्तनात्, सा द्विधा एकानेकेवशब्दत्वात् क्वचिदेकेवशब्दघटिता, क्वचिञ्च अनेकेवशब्दघटिता इति ॥ ४३॥
एकेवशब्दां वाक्यार्थोपमाम् उदाहरति त्वदिति । अधोरे चञ्चले अक्षिणौ यत्र तत्, आविर्भवन्त्यः दशनानां दीधितयो यत्र तादृशं तव आननं भ्रमन्तौ भृङ्गौ यत्र तत् तथा अलक्ष्या ईषल्लक्ष्याः केसराः किञ्जल्काः यस्य तादृशं पङ्कजमिव भाति । अत्र पूर्वार्द्धवाक्यं परार्डेन एकेवशब्दघटितेन वाक्येन उपमौयते ॥ ४४ ॥
अनेकेवशब्दम् उदाहरति नलिन्या इति । नलिन्या इव तस्याः तन्दद्भ्याः पद्ममिव आननं मधुव्रतेनेव मया पायं पायं पुन: पुन: पौत्वा श्ररम्यत । अत्र नलिन्या पद्ममिव इति वाक्येन तन्वङ्ग्या आननमिवेति वाक्यार्थस्य उपमितत्वात् अनेकेवशब्दघटितत्वाच्च अनेकेवशब्दा वाक्यार्थोपमा इति बोध्यम् ॥ ४५ ॥
प्रतिवस्तूपमां निरूपयति वस्त्विति । किञ्चित् वस्तु किमपि प्रक्कृतम् उपन्यस्य तस्य संधर्मणः समानधर्मस्य कस्यचित्