________________
७४
काव्याद”
नैकोऽपि वादृशोऽद्यापि जायमानेषु राजसु। ननु द्वितीयो नास्त्येव पारिजातस्य पादपः ॥४७॥ अधिकेन समीकृत्य हीनमेकक्रियाविधौ। यत् ब्रुवन्ति स्मृता मेयं तुल्ययोगोपमा यथा ॥४८॥
अप्रकृतस्य न्यप्तनात् प्रकृतस्य समर्थनाय उपादानात् साम्यप्रतीतिः सादृश्यावबोधो भवति इति इत्थं या साम्यप्रतीतिः प्रतिवस्तूपमा इत्यन्वयः। दर्पणकारस्तु इमाम् अलङ्कारान्तरमाह। यथा, प्रतिवस्तूपमा सा स्यात् वाक्ययोर्गम्यसाम्ययोः । एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥ इति । यथेति वक्ष्यमाणोदाहरणप्रदर्शनार्थम् ॥ ४६ ॥
उदाहरणं दर्शयति नेति। जायमानेषु राजसु मध्ये अद्यापि त्वादृशः तव सदृशः एकोऽपि नास्ति, ननु भोः पारिजातस्य पादपः वृक्षः द्वितीयो नास्त्येव। अत्र सदृशो नास्ति हितौयो नास्तौति साधारणधर्म एव पुनरुक्तिभिया शब्दान्तरेण उपन्यस्तः, साम्यञ्चात्र गम्यमिति दर्पणकारण अस्या वैधयेणापि उदाहरणं दर्शितम्। यथा, चकोर्य एव चतुराश्चन्द्रिकापानकर्मणि। विनावन्तीनं निपुणा: सुदृशो रतनर्मणि ॥ अत्र चातुर्यानैपुण्याभ्यामपि वाक्यहयस्य साम्यप्रतीतिरस्तौति बोध्यम् ॥ ४७ ॥
तुल्ययोगोपमां लक्षयति अधिकेनेति। एकक्रियाविधौ एकजातीयक्रियाविधाने होनं न्यूनं वस्तु अधिकेन अधिकगुणेन समीक्वत्य सदृशौकत्य यत् ब्रुवन्ति सा इयं तुल्ययोगोपमा क्रियायामधिकहीनगुणयोः समीकरणादित्यर्थः । तथाच