SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । दिवो जागर्त्ति रचायै पुलोमारिर्भवान् भुवः । असुरास्तेन हन्यन्ते सावलेपास्त्वया नृपाः ॥ ४८ ॥ कान्त्या चन्द्रमसं धाम्ना सूर्य्यं धैर्य्येण चार्णवम् । राजन्ननुकरोषौति सैषा हेतूपमा मता ॥ ५० ॥ न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषणायालं यत्त्रोद्देगो न धीमताम् ॥ ५१ ॥ ७५ एकजातीयक्रियया प्रस्तुताप्रस्तुतयोः साम्यकीर्त्तनं तुल्ययोगोपमा इति लक्षणम् । यथेति उदाहरणप्रदर्शनार्थम् ॥ ४८ ॥ तुल्ययोगोपमामाह दिवइति । पुलोमारिः इन्द्रः दिवः स्वर्गस्य रक्षायै, भवान् भुवः पृथिव्याः रक्षायै जागर्त्ति, तेम इन्द्रेण असुरा हन्यन्ते, त्वया सावलेपाः गर्विताः नृपाः हन्यन्ते । श्रत्र हीनस्य प्रस्तुतस्य राज्ञः गुणाधिकेन इन्द्रेण एकजातीय क्रियाकरणेन समीकरणात् तुख्ययोगोपमा इति ॥ ४८ ॥ हेतूपमाम् उदाहरति कान्त्येति । सुगमम् । अत्र राज्ञः चन्द्रादिभिः सादृश्यस्य कान्त्यादिहेतुकत्वात् ऐषा हेतूपमा इति ॥ ५० ॥ इत्थमुपमां तद्भेदांच निरूप्य प्रसङ्गतस्तगतान् दोषाम् विवक्षुः तेषाञ्च कदाचित् अदूषकत्वमाह नेति । यत्र धीमतां सामाजिकानाम् उद्देगः प्रतीतिविघातः न भवति तादृशे भिन्न पृथग्भूते लिङ्गवचने तथा होनाधिकता होनपदत्वम् अधिकपदत्वं वा उपमादोषाय न अलं नः प्रभवन्तीत्यर्थः 1 दोषाच प्राचौनैरुक्ताः । यथा होनाधिकत्वं वचनलिङ्गभेदो
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy