SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७६ काव्यादर्श . स्त्रीव गच्छति षण्डोऽयं वक्त्येषा स्त्री पुमानिव । प्राणा व प्रियोऽयं मे विद्या धनमिवार्जिता॥५२॥ विपर्ययः। असादृश्यासम्भवौ च दोषाः सप्तोपमा गता इति। होनाधिकता च उपमानस्य उपमेयापेक्षया इति बोध्यम्। लिङ्गवचनव्यत्यासे साधर्म्यस्य उभयान्वयाभावेन साम्यस्य सम्यगप्रतीतिः, हौनतायाम् उपमानस्य अपकृष्टत्वाव बोधात् प्रस्तुतस्य उपमेयस्य अनुत्कर्षः, अधिकपदत्वे च उपमेयस्य निकृष्टत्वप्रतीतिरेतदेव दोषकारणं, यत्र तु एतानि कारणानि न सन्ति तत्र एतेषां न दोषावहत्वमिति भावः । केचित् तु कालपुरुषविध्यादिभेदानपि उपमादोषानाहुः उदाहरन्ति च क्रमेण । यथा, काप्यभिख्या तयोरासीत् व्रजतोः शुद्धवेशयोः । हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ पत्र चित्राचन्द्रमसोरभिख्याया न प्रतीतत्वम् अपितु सार्वकालिकत्वम् । लतेव राजसे तन्वि ! अत्र लतापक्षे राजते इति योज्यम् । चिरं जीवतु ते सूनुर्मार्कण्डेयमुनिर्यथा इति। अत्र मार्कण्डेयमुनिर्यथा जीवतीति प्रयोज्यम् । एते दोषाश्च प्रायशः कविभिरगणिता इति बोध्यम् ॥ ५१ ॥ __लिङ्गवचनभेदस्य अदूषकत्वं दर्शयति स्त्रीति। अयं षण्डः स्त्रीव गच्छति, एषा स्त्री पुमानिव वति। अत्र क्रियाइयस्य साधारणधर्मस्य उभयत्रान्वयात् लिङ्गभेदेऽपि न दोषः । अयं जनः मे प्राणा इव प्रियः, तथा विद्या धनमिव अर्जिता। इत्येतयोरुपमानयोः वचनभेदेऽपि साधारणधर्मवयस्य वचनविपरिणामेन अन्वये धीमतां न प्रतौतिव्याघात इति न दोषावसरः। एवमुभयत्र अन्वययोग्यक्रियया वचनभेदेऽपि न
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy