________________
. द्वितीयः परिच्छेदः । भवानिव महीपाल । देवराजो विराजते। ।। अलमंशुमतः कक्षामारोढुं तेजसा नृपः ॥ ५३ ॥ इत्येवमादौ सौभाग्यं न जहात्येव जातुचित् । अस्त्येव क्वचिदुद्देगः प्रयोगे वाग्विदां यथा ॥५४॥ दोषः। यथा, तद्देशोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ॥ अत्र दधते इति क्रियापदं धाधातोबहुवचननिष्पन्न तथा दधधातोरेकवचननिष्पन्नञ्चेति उभयत्रान्वये न कश्चिद् बाधः । एवमन्यान्यपि महाकविप्रयुक्तानि सन्तीति अवधेयम् ॥ ५२ ॥
हीनतायामधिकतायाञ्च दोषाभावं दर्शयति भवानिति । हे महीपाल ! देवराजः भवानिव विराजते। अत्र उपमानस्य राजः मनुष्यत्वात् उपमेयदेवराजापेक्षया न्यूनत्वं स्वत: सिद्धमपि रानः लोकपालांशसम्भूतया न अत्यन्तं वैरस्यम् आवहतौति न दोषः, राज्ञश्च लोकपालांशसम्भूतत्वे प्रमाणं यथा अष्टानां लोकपालानां वपुर्धारयते नृप इति । इयन्तु विपयासोपमालङ्गतिः अस्याञ्च प्रायशः एवं दोषः सम्भवतीति बोध्यम् । अपिच, उत्सङ्गितकुरङ्गोऽयमृक्षमण्डलमध्यगः । विधु
र्व्याघ्र इवाभाति हन्तुं विरहदुर्बलान् ॥ इति। अत्र लिष्टविशेषणेन निकृष्टस्यापि व्याघ्रस्य उपमानत्वं न दोषायेति । नृपः तेजसा अंशुमतः सूर्य्यस्य कक्षां सादृश्यमिति यावत् आरोढुम् अलं समर्थः । अत्र नृपस्य उपमानम् अंशुमान् देवत्वादधिक इति । एवमन्यत्रापि द्रष्टव्यम् ॥ ५३॥
इत्येवमादौ उत्कर्ष एवमादिप्रयोगे जातुचित् कदाचित् सौभाग्यम् न जहाति त्यजति एव, क्वचित् प्रयोगे तु वाग्