________________
. काव्यादर्श ।
हंसीव धवलचन्द्रः सरांसीवामलं नमः । भभितो भटः श्वेव खद्योतो भाति भानुवत्॥५५ ईदृशं वय॑ते सद्भिः कारणं तब चिन्त्यताम् । गुणदोषविचाराय स्वयमेव मनीषिभिः ॥ ५६ ॥ इववत् वा यथाशब्दाः समाननिभसन्निभाः । तुल्यसङ्काशनीकाशप्रकाशप्रतिरूपकाः ॥ ५७ ॥ प्रतिपक्षप्रतिद्वन्दिप्रत्यनीकविरोधिनः ।। सट्टक्सदृशसंवादिसजातीयानुवादिनः ॥ ५८ ॥ विदां विदुषाम् उद्देगः प्रतीतिव्याघातः अस्ति। यथेति उदाहरणार्थम् ॥ ५४ ॥ - उदाहरति हंसीवेति। चन्द्रः हंसीव धवलः, नभः सरांसीव अमलं, भटः सैनिकः खा इव भर्तृभक्तः, स्वाम्यनुरक्तः तथा खद्योतः भानुवत् भाति। अत्र यथाक्रमम् उपमानानां लिङ्गभेद: वचनभेदः न्यूनत्वम् अधिकत्वञ्च सामाजिकानां वैरस्यमावहतौति एतेषां दूषकत्वं नैयायिकमिति भावः ॥५५॥ - उपसंहरति ईदृशमिति। सद्भिः सुधौभिः ईदृशं काव्यं वर्धते त्यज्यते न प्रयुज्यते नाद्रियते च इति भावः । मनो. षिभिः सहृदयैः स्वयमेव तत्र वर्जने गुणदोषविचाराय चिन्त्य
ताम् ॥ ५६ ॥ - उपमाप्रतीतिरभिधया लक्षणया व्यन्जनया च भवतीति तस्या वाचकादौनि निरूपयति इवेत्यादि। इवाद्युपमान्ताः शब्दाः बाचकाः, वदिति, कल्पदेश्यदेशीया इति च तहितप्रत्ययाव वाचकेषु अन्तर्भवन्ति । वा इत्यस्योपलक्षणत्वात् च.