________________
द्वितीयः परिच्छेदः ।
प्रतिविम्बप्रतिच्छन्द सरूपसमसम्मिताः । सलक्षणसदृचाभसपक्षोपमितोपमाः ॥ ५६ ॥ कल्पदेशीयदेश्यादिप्रख्यप्रतिनिधी अपि । सवर्णतुलितौ शब्दौ ये चान्यूनार्थवादिनः ॥ ६० ॥ समासश्च बहुब्रीहिः शशाङ्कवदनादिषु । स्पर्द्धते जयति द्वेष्टि दुह्यति प्रतिगर्जति ॥ ६१ ॥ आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति सन्धत्ते हसतौर्ष्यत्यसूयति ॥ ६२॥ तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति । तेन साईं विगृह्णाति तुलां तेनाधिरोहति ॥६३॥ तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते । तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति ॥ ६४ ॥ तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः । उपमायामिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥६५॥ इत्युपमाचक्रम् ।
৩
शब्दोऽपि तस्यापि औपम्यवाचित्वात् । निभादयः शब्दाः समासान्तर्गता एव निर्दिश्यन्ते । अन्यूनार्थवादिन: अहीनार्थवाचकाः । समासश्च बहुब्रौहिः, कर्मधारयश्चेति वक्तव्यम्, यथा, पुरुषव्याघ्र इत्यादि । शशाङ्क इव वदनं यस्या इति बहुव्रीहौ मध्यपदलोपः । स्पर्धते इत्याद्यसूयतीत्यन्ताः शब्दाः लक्षकाः तस्या मुष्णातीत्यादिनिषेधतीत्यन्ताः व्यञ्जकाः ।