SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ काव्याद” उपमैव तिरोभूतभेदा रूपकमुच्यते । यथा बाहुलता पाणिपद्म चरणपल्लवः ॥ ६६ ॥ तच्छौलमिति, तस्य शीलं स्वभावमित्यर्थः अनुबध्नाति अनुकरोति इत्यर्थः । तत् तच्छोलमित्यर्थः निषेधति तहत् आचरितुं वारयति इत्यर्थः । इमे कवीनां बुद्धिसौख्यदा मनःसौख्यविधायिनः सादृश्यसूचकाः सादृश्यबोधकाः शब्दा: उपमायां प्रोक्ताः निर्दिष्टा: औपम्यद्योतनाय प्रयुज्यन्ते इत्यर्थः ॥५७-६५॥ __ इति उक्तरूपम् उपमायाश्चकं प्रकरणमित्यर्थः । सम्प्रति रूपकं निरूप्यते उपमेति। तिरोभूतः अन्तर्भूतः भेदः प्रकताप्रकतयोः विशेषज्ञानं यत्र तादृशौ उपमा एव रूपकम् उच्यते कविभिः इति शेषः । तथाच उपमानोपमेययोः अभेदप्रतौतिपूर्वकसाम्यं रूपकमिति लक्षणम् उपमायान्तु अभेदप्रतीतिर्नास्तीत्यनयोर्भेदः। इह तु अभेदप्रतीति: साध्यरूपा, अतिशयोक्तौ च सिद्धरूपति अनयोर्भेदश्च बोद्धव्यः । यथा, बाहुलतेत्यादि बाहुरेव लता बाहुलता, पाणिरेव पचं पाणिपगं, चरण एव पल्लवः चरणपल्लवः । अत्र रूपककर्मधारयः व्यासे यथा, बाहुरेव लतेत्यादि। अत्र बाही लतात्वारोपः बाहुलता इवेत्याद्युपमापेक्षया समधिकं वैचित्रम् पावहति इति बोध्यम् । मुखचन्द्रं पश्यामौत्यादौ मुखं चन्द्र इव इत्युपमितसमासस्य तथा मुखमेव चन्द्र इति रूपकसमास. स्यापि सम्भवात् उभयोः सङ्कर इति। यत्र तु साधयं उपमेये मुख्यतया, उपमाने तु उपचरितत्वेन स्थितं तत्र उपमायाः प्राधान्यं यत्र च उपमाने मुख्यतया, उपमेये च उपचारण स्थितं तत्र रूपकस्य प्राधान्यं यथा, मुखचन्द्रं चुम्बतीत्यादी
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy