________________
द्वितीयः परिच्छेदः ।
८१.
अङ्गुल्यः पल्लवान्यासन् कुसुमानि नखार्चिषः । बाहू लते वसन्तश्रीस्त्व' नः प्रत्यक्षचारिणौ ॥६७॥ इत्येतदसमस्ताख्यं समस्तं पूर्वरूपकम् ।
स्मितं मुखेन्दोर्ज्योत्स्नेति समस्तव्यस्तरूपकम् ॥६८॥ ताम्राङ्गुलिदलश्रेणि नखदौधितिकेसरम् ।
उपमा एव तथा मुखचन्द्रः प्रकाशते इत्यादी रूपकमेव न तु उभयोः सङ्कर इति बोध्यम् ॥ ६६ ॥
नः
व्यस्तरूपकस्य उदाहरणमाह अङ्गुल्य इति । त्वं अस्माकं प्रत्यक्षचारिणी परिदृश्यमाना वसन्तश्रीः । तथाहि, ते अङ्गुल्यः पल्लवानि, नखार्चिषः कुसुमानि, बाह लते । अत्र लिङ्गभेदप्रदर्शनेन । रूपके लिङ्गभेदो न दोषोवह इति सूच्यते । कदाचित् वचनभेदोऽपि न दोषाय । यथा, शास्त्राणि चक्षुर्नवमित्यादि । अत्र शास्त्राणि इत्यनेन सर्वशास्त्रज्ञानस्य लाभात् ज्ञानस्य च एकजातीयत्वात् बहुवचनान्तमपि एकवचनान्तवत् भासते । अनोदृशस्थाने तु दोषाय । यथा, मुखं पद्मानीत्यादि ॥ ६७ ॥
इतीति । इति पूर्वोक्तमेतत् अङ्गुल्य इत्यादि असमस्ताख्यम् असमस्तरूपकम् इत्यर्थः, तत्पूर्वरूपकन्तु बाह्र लतेत्यादि समस्तरूपकम् । स्मितं मृदुहास्यं मुखेन्दोः मुखमेव इन्दुः तस्य ज्योत्स्ना इति । समस्तव्यस्वरूपकम् उभयमिश्ररूपकम् इत्यर्थः । तथाच, स्मितं ज्योत्स्ना इति व्यस्तं मुखेन्दोरिति समस्तम् ॥ ६८ ॥
सकलरूपकं निरूपयति ताम्त्रेति । ताम्राङ्गुलय एव दलश्रेणयः यस्य, तथा नखानां दीधितयः किरणा एव केसरा यस्य