________________
काव्यादर्थे
त्रियते मूर्ध्नि भूपालैर्भवञ्चरणपङ्कजम् ॥ ६१ ॥ अङ्गुल्यादौ दलादित्वं पादे चारोप्य पद्मताम् । तद्योग्यस्थानविन्यासादेतत् सकलरूपकम् ॥७०॥ अकस्मादेव ते चण्डि ! स्फुरिताधरपल्लवम् । मुखं मुक्तारुचो धत्ते घर्माम्भःकणमञ्जरीः ॥ ७१ ॥ तादृशं भवच्चरण एव पङ्कजं तत् भूपालैः मूर्ध्नि त्रियते । अव अङ्गुल्यादौ दलादित्वं दलश्रेणित्वं तथा पादे चरणे पद्मतां पङ्कजत्वम् आरोप्य तस्य पङ्गजस्य योग्ये स्थाने शिरसि इत्यर्थः विन्यासात् धारणात् एतत् सकलरूपकं सम्पूर्णरूपकं सर्वावयवस्य रूपणात् । अत्र मूर्ध्नि धारणरूपस्य साधारणधर्मस्य उपमाने पङ्कज एव औचित्यात् रूपकसमासः न तु उपमितसमासः उपमेयस्य चरणस्य मूर्ध्नि धारणायोग्यत्वात् इत्युक्तमेव प्राक् । दर्पणकारस्तु इदं साङ्गरूपकमाह । यथा, अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् । यथा, रावणावग्रहक्लान्तमिति वागमृतेन सः । अभिवृष्य मरुच्छस्यं कृष्णमेघस्तिरोदधे ॥ इति ॥ ६८ ॥ ७० ॥
احد
अवयवरूपकं निरूपयति अकस्मादित्यादि । हे चण्डि ! अतिकोपने ! चण्ड स्त्वत्यन्त कोपन इत्यमरः । ते तव मुखम् अकस्मादेव स्फुरितः कम्पितः अधर एव पल्लवः यत्र तादृशं सत् मुक्तानां रुच इव रुचः कान्तयो यासां तादृशीः घर्मान्भसां कणा एव मञ्जर्य्यः ताः धत्ते धारयति । अत्र घर्माम्भः मञ्जरीकृत्य मञ्जरौत्वेन आरोप्य तथा अधरं पल्लवीकृत्य पल्लवत्वेन आरोप्य आस्यं मुखं न अन्यथाक्कतं पद्मत्वेन न आरोपितम् । अतः अवयवमात्त्ररूपणात् अवयवरूपकम् । मुखे पद्मत्वारो