________________
द्वितीयः परिच्छेदः।
मञ्जरीकृत्य धर्माम्भः पल्लवीकृत्य चाधरम् । नान्यथाकृतमवास्यमतोऽवयवरूपकम् ॥७२॥ वलिातभु गलहर्म जलमालोहितेक्षणम्। ' विवृणोति मदावस्थामिदं वदनपङ्कजम् ॥ ७३ ॥ अविकृत्य मुखाङ्गानि मुखमेवारविन्दताम् । आसीत् गमितमवेदमतोऽवयविरूपकम् ॥ ७४॥ मदपाटलगण्डेन रक्तनेत्रोत्पलेन ते । मुखेन मुग्धः सोऽप्य ष जनो रागमयः कृतः ॥७॥ पस्तु अर्थवशात् उन्नयः। दर्पणकारस्तु इदमेकदेशविवर्ति: रूपकमाह। यथा, यत्र कस्यचिदार्थत्वमेकदेशविवर्ति तत् इति ॥ ७१ ॥ ७२ ॥ - अवयविरूपकं निरूपयति वलिातेति। वलिाते भुवौ यत्र तत् चलितयुगलं गलन्ति धर्मजलानि यस्मात् तादृशं तथा आलोहिते आरक्ते ईक्षणे यस्य तथाभूतम् इदं वदनमेव पङ्कजं मदावस्थां मद्यपानजनितां दशां विवृणोति। अत्र मुखानि अविश्वत्य पङ्कजाङ्गत्वेन अनारोप्य मुखमेव अरविन्दतां गमितं पवाजत्वेन आरोपितम्, अतः अवयविमानस्य रूपणात् अवयविरूपकमिदम् । अत्र उपमा एव साधीयसी न रूपकं साधारणधर्मस्य भूवलानादिकस्य उपमेये वदने एव मुख्यतया वर्त्तनात् पङ्कजे च उपचरितत्वात्. अत: वदनमम्बुजम् इति पाठ एव साधीयानिति सुधौभिः विचार्थम् । दर्पणकारस्तु इदं निरङ्गरूपकमाह ॥ ७३ ॥ ७४ ॥
अवयवरूपकस्य विशेषान् दर्शयति मदेत्यादि। स एष