________________
काव्यादर्श एकाङ्गरूपकञ्चैतदेवं हिप्रभृतौन्यपि । अङ्गानि रूपयन्त्यत्र योगायोगी भिदाकरौ ॥७६ ॥ स्मितपुष्पोज्ज्वलं लोलनेवभृङ्गमिदं मुखम् । इति पुष्पदिरेफाणां सङ्गत्या युक्तरूपकम् ॥ ७७ ॥ इदमाईस्मितज्योत्स्न स्निग्धनेत्रोत्पलं मुखम् । इति ज्योत्स्नोत्पलायोगादयुक्तं नाम रूपकम् ॥७॥
जनोऽपि ते तव मदेन पाटलौ गण्डौ यस्य तेन तथा रक्ते नेते एव उत्पले यस्य तादृशेन मुखेन मुग्ध: तथा रागमयः अनुरागपूर्ण इत्यर्थः कृत इत्यन्वयः । अत्र रक्तनेत्रोत्पलेनेति एकाङ्गमात्ररूपणात् एकाङ्गरूपकमिदम् । एवं यत्र अङ्गहयेन रूपणं तत्र ह्यङ्गरूपकम् । एवं वाङ्गरूपकादि। अत्र अवयवरूपके अङ्गानि रूपयन्ति अप्रस्तुतत्वेन आरोपयन्ति न तु अङ्गिनम् इति शेषः, अत: अङ्गस्य अङ्गयोः अङ्गानां वा योगः अयोगश्च भिदाकरौ भेदकौ ॥ ७५ ॥ ७६ ॥
अथ युक्तरूपकं निरूपयति स्मितेति। स्मितमेव पुष्प स्मितपुष्प तेन उज्वलं लोले नेत्रे एव भृङ्गौ यत्र तादृशम् इदं मुखमित्यत्र पुष्पहिरेफाणां सङ्गत्या योगेन स्मिते पुष्यत्वस्य नेत्रे भ्रमरस्य समारोपणेत्यर्थः युक्तरूपकमिदम् ॥७॥ - अयुक्तरूपकमाह इदमिति। आ, स्मितमेव ज्योत्स्ना यत्र तत् तथा स्निग्धे नेत्रे एव उत्पले पद्म यत्र तादृशं मुखम् इत्यत्र ज्योत्स्रोत्यलायोगात् ज्योत्स्रया उत्पलस्य अयोगात् भित्रकालीनत्वादुभयोरिति भावः, अयुक्तं नाम रूपकम् ॥ ७८॥