SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ हितीयः परिच्छेदः । ८५. रूपणादङ्गिनोऽङ्गानां रूपणारूपणाश्रयात्।। रूपकं विषमं नाम ललितं जायते यथा ॥७॥ मदरताकपोलेन मन्मथस्त्वन्मुखेन्दुना। नर्तित लतेनालं मर्दितुं भुवनवयम् ॥ ८ ॥ हरिपादः शिरोलम्नजङ्ग कन्याजलांशुकः। । जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वनः ॥ ८१॥ " विशेषणसमग्रस्य रूपं केतोर्यदीदृशम् । पादे तदर्पणादेतत् सविशेषणरूपकम् ॥ २ ॥ विषमरूपकमुदाहरति रूपणादिति। पङ्गिनः रूपसात् तया अङ्गानां तदवयवानां रूपणारूपणात् कस्यचि. दङ्गस्य रूपणात् कस्यचित् वा अरूपणात् ललितं सुन्दरं वैचिताजनकमित्यर्थः विषमं नाम रूपणं जायते, यथा मदेन रतो कपोलौ यस्य तेन तथा नर्त्तिते ध्रुवौ एव लते यत्र ताहशेन त्वन्मुखमेव इन्दुस्तेन मन्मथः भुवनवयं मर्दितुं जेतुम् अलं समर्थः । अङ्गिनि मुखे इन्दुत्वारोपः तथा तदङ्गीभूतयोर्बुवोः लतात्वारोपः कपोलयोस्तु नारोप इति वैषम्यम् ॥ ८ ॥ ___ सविशेषणरूपकं निर्दिशति हरौति । शिरसि अप्रभाग लग्न अङ्गुकन्याया गङ्गाया जलमेव अंशकं श्वेतवसनाचलं यस्य सः तथा असुरेभ्यः निःशङ्का ये सुराः देवा: वलिदमनात् इति भावः तेषामानन्दोत्सवस्य ध्वज: हरिपादः वामनधरणः जयति। विशेषणसमग्रस्य सविशेषणस्थ केतोवंजस्य यत्' ईदृशम् उक्तरूपं रूपं, पादे चरणे तस्य अर्पणात् पारीपात् सविशेषणरूपकमिदम् ॥८१॥२॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy