________________
काव्यादर्श
तदेतहाभयं भूयः संस्कृतं प्राकृतं तथा। अपभ्रंशश्च मिश्रञ्चत्याहुराश्चितुर्विधम् ॥ ३२ ॥ संस्कृतं नाम दैवी वागवाख्याता महर्षिभिः । तगवस्तत्समो देशोत्यनेकः प्राकृतक्रमः ॥ ३३ ॥
अव्यकाव्यस्यापि कदाचित् मित्रत्वमस्तोत्याह गद्येति। गद्यपद्यमयौ काचित् वाणी इति शेष: चम्यूरिति अभिधीयते आख्यायिकादौ गद्यस्यैवाधिक्वं पद्यमल्पमेव इह तु उभयोरेव प्राधान्यमित्यनयोर्भेदः । काचित् इत्यनेन विरुदायकाव्यव्यवच्छेदः तस्य राजस्तुतिविषयत्वेन विभिनविषयत्वात् । तदुक्त गद्यपद्यमयी राजस्तुतिर्विरुदमुच्यते इति ॥ ३१ ॥
तत् तस्मात् एतत् वाश्रयं वागात्मकं काव्यशास्त्र संस्कृतं देवभाषया रचितं प्राकृतं तदाख्यभाषया रचितम् अपभ्रंशः वक्ष्यमाणीताभाषाविशेषनिवई तथा मित्रच नानाभाषामय- ' मित्यर्थः इति एवंरूपेण भार्थ्याः विद्वांसः चतुर्विधम् पाहुः वर्णयन्ति । उक्तञ्च भोजेन, संस्कृतेनैव कोऽप्यर्थः प्राक्कतेनैव चापरः। शक्यो वाचयितुं कश्चित् अपभ्रंशेन वा पुनः ॥ पैशाया शौरसेन्या च मागध्यान्यो निबध्यते। हिनाभिः कोऽपि भाषाभिः सर्वाभिरपि कश्चन ॥ इति ॥ ३२ ॥ __ संस्कृतादिकं विवृणोति संस्कृतमिति । दैवी देवसम्बन्धिनी देवव्यवहार्या वा वाक् महर्षिभिः संस्कृतम् अन्वाख्याता कथिता, प्राकतानां नौचानामिदं प्राकृतं तस्य क्रमः नियमः अनेकः बहुविधः तथा तद्भवः तस्मात् संस्कृतात् भवः उत्पनः तत्समः संस्कृतसदृशः तथा देशो तत्तद्देशप्रचलित इत्यर्थः ।