________________
प्रथमः परिच्छेदः।
महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः ।। सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥३४॥ शौरसेनी च गौड़ी च लाटी चान्या च तादृशौ । याति प्राकृतमित्येवं व्यवहारेषु सन्निधिम् ॥३५॥ आभौरादिगिरः काव्येष्वपभ्रश इति स्मृताः । शास्त्रेषु संस्कृतादन्यदपभ्रशतयोदितम् ॥ ३६ ॥
देशीनामपि संस्कृतसादृश्यात् हावेव भेदाविति केचित् । उक्तञ्च, पार्षोत्यमार्षतुल्यच्च विविधं प्राक्कतं विदुः इति ॥ ३३ ॥ - महाराष्ट्राश्रयां महाराष्ट्रो नाम दक्षिणापथवर्ती जनपदविशेषः तदाश्रयां तत्सम्बन्धिनी तवत्यैर्व्यवहृतामित्यर्थः भाषां प्रकष्टम् उत्कृष्टं प्राकृतं विदुः जानन्ति बुधा इति शेषः । सूक्तिरत्नानां सूत्रायः सुवचनानि एव रत्नानि सहृदयानन्दजननात् रत्नखरूपाणि तेषां सागरः सेतुबन्धादि सेतुबन्धः तदाख्यकाव्यग्रन्थविशेषः आदिपदेन दशमुखबधादीनां परिग्रहः यन्मयः . यदात्मकः महाराष्ट्रीयभाषया रचित इत्यर्थः ॥ ३४ ॥
शूरसेनो नाम मथुरासन्निहितजनपदभेदः गौड़: देशविशेषः लाटीव कश्चित् देशभेदः तत्तद्दे शप्रचलिता तथा तदृशी तत्सदृशी अन्या च देशीया भाषा प्राकृतमिति एनं व्यवहारष प्राकृतनामव्याहारेषु सबिधिं याति प्राप्नोति अन्या च तादृशीत्यनेन सर्वदेशीया एव प्राकृतनाम्ना कविभिर्निबध्यन्ते इत्यपि सूचितम् ॥ ३५॥
काव्येषु अाभौरो गोपजातिविशेषः आदिपदेन कैवर्त्तचाण्डालादीनां ग्रहणं तेषां गिरः वाचः अपभ्रंश इति स्मृताः