SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १५ काव्यादर्थे संस्कृतं सर्ववन्धादि प्राकृतं स्कन्धकादिकम् । पासारादीन्यपबंशो नाटकादि तु मिश्रकम् ॥३७॥ अपभ्रंशनाम्ना कथिताः शास्त्रेषु काव्यातिरिक्तेषु वेदादिषु तु संस्कृतात् अन्यत् सर्वं प्राकृतम् उल्लिखितमाभौरादिवचनच्च इत्यर्थः अपभ्रंशतया उदितं कथितम् ॥ ३६ ॥ ... संस्कृतादिकं निरूप्य तत्तल्लक्ष्याणि निरूपयति संस्कृतमिति। सर्गबन्धः पूर्वमुक्तः प्रबन्धविशेष: महाकाव्यमित्यर्थः आदिपदेन खण्डकाव्यादीनां परिग्रहः संस्कृतं संस्कृतभाषया रचितम् । तथाच अग्निपुराणम्, सर्गबन्धो महाकाव्यमारब्ध संस्कृतेन यत् । तद्भवं न विशेत्तत्र तत्समं नापि किञ्चन ॥ इति । स्कन्धकादिकं स्कन्धकं छन्दोभेदः आदिपदेन गलितकादीनां ग्रहणम् । तदुक्ता', छन्दसा स्कन्धकेनैव तथा गलितकैरपि इति। स्कन्धकादिच्छन्दोरचितं काव्यं प्राकृतं प्राकृतभाषामयमित्यर्थः । पासारादीनि भासारादिभिः छन्दोभिः निबहमित्यर्थः काव्यम् अपभ्रंशः । नाटकादि तु नाटकम् आदि यस्य तत् आदिना प्रकरणनाटिकादिपरिग्रहः मिश्रकं नानाभाषामयमित्यर्थः। तथाचोक्तं नाटकादिप्रस्तावे, पुरुषाणामनौचानां संस्कृतं स्यात् कृतात्मनाम् । शौरसेनी प्रयोक्तव्या तादृशीनाञ्च योषिताम् ॥ आसामेव तु गाथासु महाराष्ट्री प्रयोजयेत् । अत्रोक्ता मागधी भाषा राजान्तःपुरचारिणाम् ॥ चेटानां राजपुत्राणां श्रेष्ठिनाञ्चाईमागधौ। प्राच्या विदूषकादौनां धूर्तानां स्यादवन्तिका ॥ योधनागरिकादीनां दाक्षिणात्याहि दौव्यताम् । शकाराणां शकादीनां शाकारी संप्रयोजयेत् ॥ इति ॥ ३७॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy