________________
प्रथमः परिच्छदः।
कथाहि सर्वभाषाभिः संस्कृतेन च बध्यते। भूतभाषामयौं प्राहुरङ्ग ताथीं वृहत्कथाम् ॥ ३८॥ लास्यच्छलितशल्यादि प्रेक्ष्यार्थमितरत् पुनः । . श्रव्यमेवेति सैषापि यो गतिरुदाहृता ॥ ३६॥
कथा पूर्वोक्तः काव्यभेदः सर्वभाषाभिः संस्कृतेन च बध्यते विरचते हिशब्दोऽवधारण तथाहि कथा दिविधा मित्रभाषामयो संस्कृतमयी च इति भावः । वृहत्कथां तदाख्यकाव्यन्तु भूतभाषा पैशाची भाषा तन्मयीं तद्रचिताम् अद्भुतार्थी विस्मय. रसपूर्ण प्राहुः विहांस इति शेषः ॥ ३८ ॥
सम्प्रति दृश्यश्रव्यलभेदेन काव्यस्य दैविध्यमाह लास्येति । लास्यं शृङ्गाररसावितस्त्रीजननृत्यम् । तदुक्तां, लासः स्त्रीपुंसयोर्भावस्तदहं तत्र साधु वा। लास्यं मनसिजोल्लासकर मृदङ्गहाववत् । देव्यै देवोपदिष्टत्वात् प्रायः स्त्रीभिः प्रयुज्यते ॥ इति। अन्यच्च, कोमलं मधुरं लास्यं शृङ्गाररससंयुतम् । गौरीतोषकरचापि स्त्रीनृत्यन्तु तदुच्यते ॥ इति । छलितं पुरुषुनर्त्तनम् । तदुक्त, नृत्यं छलितं विदुः इति। शल्या कपालदेशे करविन्यासपूर्वकं नृत्यं तदाह, भाले हस्तं समावेश्य नृत्यं शल्येति कीर्त्तितम् इति। शल्येत्यत्र साम्येति कचित् पाठः तथाले साम्यं गोतवादिनादिसमन्वितं नृत्यं रासापरपयायमभिहितम्। आदिपदेन ताण्डवादिपरिग्रहः । तथोक्तं, तल्लास्यं ताण्डवञ्चेति छलितं शल्यया सह । हल्लीशकञ्च रासच षट्प्रकारं विदुर्बुधा ॥ इति ताण्डवमुद्धतनृत्यं यथा, उद्दतन्तु महेशस्य शासनात् तण्डनोदितम् । भरताय ततः ख्यातं लोके ताण्डवसंजया ॥ इति। हलोशं स्त्रीणां मण्डलाकारेण नृत्यम् । यदुक्त, मण्ड