SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २० काव्यादर्थे अस्त्यनेको गिरां मार्गः सूक्ष्मभेद: परस्परम् । तव वैदर्भगौड़ीयौ वर्ण्येते प्रस्फुटान्तरौ ॥ ४० ॥ शेषः प्रसादः समता माधुर्य्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः ॥ ४१ ॥ लेन तु यत् स्त्रौणां नृत्यं हल्लीशकं विदुः । तत्र नेता भवेदेको . गोपस्त्रीणां यथा हरिः ॥ तदेवं लास्यादिसङ्घटितं काव्यं प्रेच्यार्थं प्रेच्यः दृश्यः अर्थः प्रतिपाद्यं वस्तु यस्मिन् तत् नटैः रामाद्यवस्थानुकरणस्य दर्शनविषयत्वात् इतरत् अन्यत् दृश्यकाव्याद भिन्नं मुक्तकादिश्रव्यमेव श्रवणमात्रविषयत्वात् । उक्तञ्च भोजराजेन श्रव्यं तत् काव्यमाहुर्यवेक्ष्यते नाभिधीयते । श्रोत्नयोरेव सुखदं भवेत्तदपि षड्विधम् ॥ इति । इत्थं सा प्रसिद्दा एषा उक्तरूपा दयौ द्विविधा गतिः काव्यभेदप्रवर्त्तकः पन्थाः उदाहृता प्राचीनैरिति शेषः ॥ ३८ ॥ 9 एवं काव्यभेदं निरूप्य तस्य रीतिर्निरूपयति स्तौति । अनेक: विविधः गिरां वाचां मार्गः रचनापद्धतिः रौतिः इति यावत् अस्ति । तथाच, गौड़ी वैदर्भी पाञ्चाली इति वामनः । अतिरिक्ता लाटीति दर्पणकारः । वैदर्भी चाथ पाञ्चाली गौड़ी चावन्तिका तथा । लाटीया मागधी चेति षोढ़ा रोतिर्निगद्यत इति भोजराजादयः । स च परस्परं सूक्ष्मभेदः खल्पमात्रभेदः अतः तन्निरूपणेन ग्रन्थबाहुल्यकरणं वृथेति भावः । तत्र विवि - धेषु मार्गेषु मध्ये वैदर्भगौड़ीयौ वर्ण्यते यतः तौ प्रस्फुटम् अन्तरं ययोः तादृशौ एकस्य सुकुमारत्वेन अपरस्य उत्कटत्वेन अत्यन्त - वैसादृश्यात् इति भावः ॥ ४० ॥ / hd भैदर्भीगौड़ इत्याह श्लेष इति । श्लेषादयः दश
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy