________________
२१
प्रथमः परिच्छेदः। इति वैदर्भमार्गस्य प्राणा दशगुणाः स्मृताः । एषां विपर्ययः प्रायो दृश्यते गौड़वमनि ॥४२॥ श्लिष्टमस्पृष्टशैथिल्यमल्पप्राणाक्षरोत्तरम् । शिथिलं मालतीमाला लोलालिकलिला यथा ॥४३॥
गुणाः शब्दार्थोत्कर्षविधायिनो धर्मविशेषाः वदर्भमार्गस्य वैदर्भीयरीत्याः प्राणाः जीवनानि एतेन श्लेषादिमत्पदरचनावत्त्व वैदर्भीत्वमित्युक्तम्। स्मृताः पण्डितैः इति शेषः । दर्पणकारादयस्तु प्रात्मनः शौर्यादय इव् रसस्य काव्यात्मभूतस्य धर्मा माधुर्योजःप्रसादादय एव गुणा इत्याहुः । गौड़ौवमनि तु गौड़ीयरीत्यान्तु एषां श्लेषादीनां प्रायः बाहुल्येन विपर्ययः वैपरौत्यं दृश्यते विपर्ययश्च कचित् सर्वथा, क्वचित् केनचित् अंशेनेति बोध्यम् । उताच, असमस्तैकसमस्ता युक्ता दर्शाभगुणैश्च वैदर्भी। वर्गहितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया इति बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौड़ीया। रीतिरनुप्रासमहिमपरतन्त्रा स्तोभवाक्या च इति ॥ ४१ ॥ ४२ ॥
इदानीं श्लेषादीनां लक्षणानि निरूपयति लिष्टमित्यादि। अल्पः प्राण: सारः उच्चारणप्रयासः येषां तानि अक्षराणि उत्त. राणि प्रधानानि प्रचुराणि यस्मिन् तादृशम् अल्पप्राणाक्षराश इस्वस्वरा वर्गीया विषमवर्णा यरलवाश्चेति । शिथिलम् अपिरत्नाध्याहार्य: अतीव्रमपीत्यर्थः अस्पृष्टं शैथिल्यं येन तत् विन्यासवशात् शिथिलत्वेन अलक्ष्यमाणं वाक्यं निष्टं श्लेषगुणयुक्तमित्यर्थः । तथाच, तादृशाक्षरघटितरचना श्लेष इति फलितम् । दृष्टान्तमाह मालतीति यथा लोलैः चपलैः अलिभिः