________________
काव्याद”
अनुप्रासधिया गौडैस्तदिष्टं बन्धगौरवात् । वैदर्भेर्मालतीदाम लङ्कितं भ्रमरैरिति ॥ ४४ ॥
भ्रमरैः कलिला व्याप्ता मालती माला। एतञ्च मकारादिभि: अल्पप्राणाक्षरैर्घटितम् अनुप्रासवशात् गाढ़मिव प्रतिभासते इत्यत्र श्लेषाख्यगुणो बोदव्यः । केचित्तु यत्किञ्चनवर्णधाटतानां पदानां बहूनां विन्यासमहिना एकपदवत् अवभासनं श्लेष इति वदन्ति उदाहरन्ति च यथा। उन्मज्जत् जलकुञ्जरेन्द्ररभसास्फालानुबयेहतः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनौः। उच्चैरुञ्चरति ध्वनिः श्रुतिपथोमाथी यथायं तथा प्रायः प्रेसदसङ्ख्यशधवला वेलेयमुगच्छति इति । वस्तुतस्तु अल्पप्राणेषु वर्णेषु विन्यासोऽप्यन्तरान्तरा। महाप्राणस्य च मेषो यथायं भ्रमरध्वनिः । इति क्रमदीखरोक्तमेव समोचौनम् अनुप्रासस्य लक्षणघटकत्वे तहटितमाधुर्य्यादौ अतिव्याप्तेरिति जेयम् ॥ ४३ ॥
गौड़ेः गौड़देशनिवासिभिः कविभि: अनुप्रासधिया अनुप्रासो वर्णात्तिरूपः शब्दालङ्कारः तस्य धिया बोधेन तथा बन्धगौरवात् रचनाया गाढ़त्वात् तत् मालतीमालेत्यादि। श्लेषोदाहरणम् इष्टम् अभिलषितं ते तादृशीमेव रचनां प्रायश इच्छन्तीति भावः । वैदर्भः विदर्भदेशीयैः कविभिः भ्रमरैः अत्र इवशब्दोऽध्याहार्यः मालतोदामेति वाक्यं मालतीमालेत्यनभिधाय इति भावः । लक्षितम् आक्रान्तं श्लेषघटितत्वेन अङ्गीकतमिति यावत् तेषां कुत्रचित् अनुप्रासासद्भावेऽपि श्लेषत्वकौर्तनादिति भावः। अयञ्च श्लेषः शब्दमात्रगुणः । अर्थगुणस्तु दर्पणकारादिभिः उक्तस्तत्र तत्र द्रष्टव्यः ॥ ४४ ॥