SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः । प्रसादवत् प्रसिद्धार्थमिन्दोरिन्दीवराति । लक्ष्म लक्ष्मों तनोतीति प्रतीतिसुभगं वचः ॥४५॥ व्युत्पन्नमिति गौड़ीयै तिरूंढ़मपीष्यते । यथानत्यर्जुनाजन्म सदृक्षाको बलक्षगुः ॥ ४६॥ . प्रसादं निरूपयति प्रसादवदिति। प्रसिद्धः अर्थः प्रतिपाद्यवस्तु यस्य तत् उभयार्थकशब्दानाम् अप्रसिद्धार्थे प्रयोगो निहतार्थतारूपदोषः तद्रहितमित्यर्थः प्रतीत्याम् अर्थपरिज्ञाने सुभगं सरलं झटित्यर्थबोधकं वचः वचनं प्रसादवत् प्रसादगुणयुक्त तथाच निर्दोषत्वे सति परिस्फुटार्थवत्त्व प्रसाद इति भावः तत्र उदाहरणम् इन्दारिति। इन्दीवर नौलोत्पलं तहत् द्युतिर्यस्य तादृशं श्यामवर्ण लक्ष्म कलङ्कः इन्दोः चन्द्रस्य लक्ष्मी श्रियं तनोति विस्तारयति। अत्र इन्दादिशब्दाः प्रसिद्धचन्द्राद्यर्थेषु प्रयुक्ता झटित्यर्थबोधकाश्चेति ज्ञेयम् ॥ ४५ ॥ ____ गौड़ीयानां मतं दर्शयति व्युत्पन्न मिति। गौड़ीयैः लद्देशवासिभिः पण्डितैः न अतिरूढ़मपि अनतिप्रसिद्धमपि निह. लार्थत्वदोषाकलितमपौत्यर्थः व्युत्पत्वं व्युत्पत्तियुक्तं योगार्थघटितमित्यर्थः वाक्यं प्रसादवदिति शेषः इष्यते बन्धगाढ़तावशात् वैचित्नयाधायत्वादिति भावः । उदाहरति यथेति अनत्यर्जुनाअन्मसदृक्षाङ्क अनत्यर्जुनं नातिधवलं यत् अजन्म उत्पलं तस्य सदृक्षः सदृशः अङ्गः कलङ्कः यस्य तथोक्तः वलक्ष: धवल: गौः किरणो यस्य सः चन्द्र इति अत्र अर्जुनशब्दः कार्तवीर्यार्जुनपाण्डवयोः प्रसिद्धः श्वेतवर्णे अप्रसिद्ध इति निहतार्थत्वदोषदुष्टः अझन्मशब्दश्च अप्रसिद्धः सदृक्षशब्दश्च उपमागर्भबहु
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy