SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ काव्यादरों समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः । बन्धाम्मृदुस्फुटोन्मिश्रवर्णविन्यासयोनयः ॥ ४७ ॥ २४ व्रीहिणैवार्थबोधनात् अधिकः प्रयुक्त इति अधिकपदतादोषदुष्ट एव तथा वलक्षशब्दोऽपि अप्रयुक्ततादोषकलितः । श्रुतिकटु च सहचवलक्षशब्दौ । इत्थञ्च बहुदोषमपि काव्यं विन्यासस्य माढत्वात् गौड़ाः काव्यत्वेनाद्रियन्ते । अयञ्च प्रसादाख्यगुणः अर्थगत एव शब्दगस्तु श्रोजोमिश्रितशैथिल्यात्मा इति दर्पण - कारः । उदाहृतञ्च तेनैव यथा यो यः शस्त्रं बिभर्त्ति स्वभुजगुरुमदात् पाण्डवौनां चमूनाम् । यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यः तत्कर्मसाक्षी चरति मयि रणे यच यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहमिति ॥ ४६ ॥ समतां निरूपयति सममिति । बन्धेषु रचनासु अविषमम् अविलक्षणम् उपक्रमोपसंहारयोः सदृशमित्यर्थः समं समताख्यगुणयुक्तं तथाच उपक्रमेषु यादृशी रचना, उपसंहारेषु तादृश्येव एवं गुणः समता इत्यर्थः, ते बन्धाः त्रिविधा: मृदुः कोमलः, स्फुट: तौत्रः, मध्यमः उभयात्मक इति । बन्धानां मृदुत्वादेर्हेतुमाह, मृद्दिति । मृदुवर्णानां खखरादीनां स्फुटानां दीर्घखरादौनां तथा उम्मिश्राणाम् उभयात्मकानां वर्णानां विन्यासः योनिः कारणं येषां तादृशाः । अयञ्च गुणः शब्दगत एव अर्थगुणस्तु समताप्रक्रान्त प्रकृतिप्रत्ययाद्यविपय्यासेन अर्थस्य अविसंवादिता स च प्रक्रमभङ्गदोषाभाव एव दर्पणकारेणोक्तः यथा उदेति सविता ताम्रस्ताम्म्र एवास्तमेति चेत्यादि ॥ ४७ ॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy