SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः । २५ कोकिलालापवाचालो मामेति मलयानिलः । उच्छलच्छोकराच्छाच्छनिर्भराम्भःकणोक्षितः॥४८॥ चन्दनप्रणयोगन्धिर्मन्दो मलयमारुतः । . स्पईते रुडमईं• वररामामुखानिलैः ॥ ४६॥ इत्यनालोच्य वैषम्यमर्थालङ्कारडम्बरौ। उताया समतायाः वैविध्यं दर्शयति कोकिलेत्यादि । कोकिलानाम् आलापेन वाचाल: मुखरः मलयानिल: माम् एति पौड़यितुं सुखयितुं वा इति शेषः । अत्र मृदुनोपक्रान्तस्य तेनैव समापनमिति मृदुबन्धगा समता । उच्छलन्तः उद्गच्छन्तः शीकरा जलकणा यस्य तादृशम् अच्छाच्छम् अतिस्वच्छं यत् निराम्भः तस्य कणैः विन्दुभिः उक्षितः अभिषिक्तः सुशीतल इति यावत् मलयानिल: मामेति। अत्र स्फुटबन्धेन उपकान्तस्य सन्दर्भस्य तेनैव उपसंहार इति स्फुटबन्धगता समता। चन्दनेन प्रणयः संसर्गः चन्दनप्रणयः तेन उद्गन्धिः उगतगन्धः मन्दः मृदुलः तथा रुद्धं निराकृतं मम धैर्य येन तथाभूतः मम धैर्य नाशयनित्यर्थः वररामाणाम् उत्तमाङ्गनानां मुखानिलैः मुखनिःसृतसुगन्धिमारुतैः स्पर्द्धते सादृश्य लभते इति यावत् सौगन्ध्यसाम्यादिति भावः । अत्र उपक्रमोपसंहारयोर्मिश्रबन्धवशात् मध्यमबन्धगता समता ॥ ४८ ॥ ४८॥ उक्तायां समतायां गौड़ीयानामनादरं दर्शयति इतौति। इति उक्तप्रकारं वैषम्यं बन्धगतं मार्दवादिकम् अनालोच्य अविचार्य अर्थानां काव्यार्थानाम् अलङ्काराणाम् अनुप्रासोपमादौनाञ्च डम्बरौ आडम्बरौ उत्कर्षों इत्यर्थः अपेक्षमाणा अनुसरन्तीत्यर्थः पौरस्त्याः पूर्वदेशीयाः गौड़ीया इत्यर्थः काव्यानां
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy