SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ हितीय परिच्छेदः। अवलेपपदेनाव बलाहकामदेना चः। क्रिये विरुङ्गे संयुक्त तद्विरुद्धार्थदीपकम् ॥११॥ हरत्याभोगमाशानां गृह्णाति ज्योतिषां गणम् । आदत्ते चाद्य मे प्राणानसौ जलधराबली ॥१११॥ अनेकशब्दोपादानात् क्रियैकैवान दीप्यते । यतो जलधराबल्या तस्मादेकार्थदीपकम् ॥११२॥ हृद्यगन्धवहा स्तुङ्गा स्तमालश्यामलत्विषः । दिवि भ्रमन्ति जोमूता भुवि चैते मतङ्गजाः ११३ चः विरुहे वईनकर्शनरूपे क्रिये संयुक्त अन्विते, तत् तस्मात् विरुद्धार्थदीपकमिदम्। एतच्च आदिवाक्येन अवलेपमिति पदेन बलाहका इति पदेन च सर्ववाक्यात्वयात् बलाहकस्य जातिवाचकत्वात् अवलेपस्य च - गुणवाचित्वात् आदिगतः जातिदीपकगुणदीपकयोः सङ्कर इति ध्येयम् ॥ १०८ ॥ ११० ॥ ____ एकार्थदीपकमुदाहरति हरतीत्यादि। असौ जलधरावली पाशानां दिशाम् आभोगं विस्तारं हरति, ज्योतिषां गणं ग्रहाति, अद्य - मे मम प्राणांश्च आदत्ते। अत्र अनेकेषां. शब्दानां हरति गृहाति आदत्ते इति क्रियावाचकानाम् उपादानात् ग्रहणात् अपिरत ऊहनीयः । यतः जलधरावत्याः एका एव-क्रिया एकार्थकत्वात् त्रयाणामेव क्रियावाचकपदाना. मिति भावः दोश्यते, तस्मात् एकार्थदीपकमिदम् ॥१११॥११२॥ निष्टार्थदीपकमुदाहरति हृद्येति। हृद्यः शीतलत्वात् . मनोरमः गन्धवहो, येषु ते, इति जीमूतविशेषणम् । इद्यं गन्धं मदजनितं वहन्तीति तथोक्ता. इति मतङ्गजविशेषणम्,।
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy