SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ काव्यादर्श अव धर्मेरभिन्नानामधाणां दन्तिनां तथा । भ्रमणेनैव सम्बन्ध इति निष्टार्थदीपकम् ॥११४॥ अनेनैव प्रकारेण शेषाणामपि दीपके। विकल्पानामवगतिर्विधातव्या विचक्षणैः ॥११५॥ इति दीपकचक्रम् । अर्थात्ति: पदावृत्तिभयावृत्तिरेव च । दीपकस्थान एवेष्टमलद्धारवयं यथा ॥११६॥ वगन्धवहाः तमालवत् श्यामला: विषः कान्तयः येषां मादृशाः नौमूताः दिवि आकाशे, एते मतङ्गजाश्च भुवि भ्रमन्ति। अत्र धर्मः साधारणैः हृद्यगन्धवहत्वादिभिः अभिबानाम् अभ्राणां तथा दन्तिनाम् एकया भ्रमणक्रियया एव वाक्यहये सम्बन्ध इति लिष्टार्थदीपकं हृद्यगन्धवहत्वरूपनिष्टार्थस्य प्रकटनात् इति भावः ॥ ११३ ॥ ११४ ॥ दीपकं संहरति अनेनेति । अनेन एव प्रकारेण वैचित्राविशेषवरीन दौपके शेषाणाम् उक्तावशिष्टानां विकल्पानां भेदानाम् अवगतिः जानं विचक्षणैः सुधीरैः विधातव्या ॥११॥ इति उक्तविधं दोपकानां चक्र समूहः। अथ प्राकृत्तिं निरूपयति अर्थाहत्तिरिति । दीपकस्थाने दीपकस्य सम्भवे अर्थावृत्तिः पदावत्तिः उभयावृत्तिश्च इदम् अलकारत्रयम् इष्टं कविभिरिति शेषः । अर्थस्य एकस्य वाक्यार्थस्य पात्तिः वाक्यान्तरे पुनरुपस्थितिः, पदावृत्तिः वाक्यातरीयपदस्य वाक्यान्तरे पुनरुपस्थितिः, उभयात्तिः वाक्यार्थस्य पदस्य च वाक्यान्तरे पुनरुपस्थितिः। दीपके तु वाक्या
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy