________________
प्रथमः परिच्छेदः ।
दीप्तमित्यपरेर्भूना कृच्छ्रोद्यमपि बध्यते । न्यक्षेण चयितः पक्षः क्षत्रियाणां चणादिति ॥७२॥ अर्थव्यक्तिरनेयत्वमर्थस्य हरिणोद्धृता ।
३८
मनः ॥ इति । असति गुणवैचित्रे अर्थालङ्कारौ न शोभते अतएवोक्त' भोजराजेन, अलङ्कृतमपि श्रव्यं न काव्यं गुणवर्जितम् । अन्यच्च यदि भवति वचतं गुणेभ्यो वपुरिव यौवनबन्ध्यमङ्गनायाः । अपि जनदयितानि दुर्भगत्व नियतमलङ्करणानि संश्रयन्ते इति ॥ ७१ ॥
रसविशेषे सौकुमार्यमनङ्गीकुर्वतां मतं दर्शयति दौतमिति । अपरैः गौड़ीयकविभिः वौरादिषु रसेषु दीप्तिरौज्ज्वल्यं तद्युक्त ं तदुद्व्यञ्जकमित्यर्थः दीप्तं समुत्तेजनमिति यावत् पदं कृच्छ्रेण कष्टेन उद्यम् उच्चाय्र्यमपि भूम्ना बाहुल्येन बध्यते विरच्यते । गौड़ीया हि वीररसादिध्वनौ परुषाक्षरविन्यासेन तद्व्यञ्जनस्य हृद्यतया सौकुमार्य्यं न अङ्गीकुर्वते इति भावः 1 यथा न्यक्षेण नेत्रहौनेन अन्येनेत्यर्थः धृतराष्ट्रेण क्षणात् अल्पेनैव कालेन क्षत्रियाणां पक्षः समूहः समग्रक्षत्रियकुलमित्यर्थः चयितः नाशितः कुरुक्षेत्रयुद्धे इति शेषः । अत्र वीररसवर्णनायां तातिकटुपरुषवर्णप्रयोग एव चमत्कारमातनोतीत्येवंविधे प्रयोगे सौकुमाय्यत्यागो गुण एवेति ध्येयम् । वैदर्भास्तु ईदृशेऽपि प्रयोगे सौकुमाय्र्यमाद्रियन्ते यथा कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिः निर्मर्थ्यादैः भवद्भिरुदायुधैः। नरकरिपुणा साईं तेषां सभौमकिरीटिनामयमह'मसृङ्मांसैः करोमि दिशां वलिमिति । अत्र रौद्रेऽपि रसे न अतिपरुषाक्षराणि विन्यस्तानि ॥ ७२ ॥