________________
३८
काव्याद” मण्डलीकृत्य बर्हाणि कण्ठैमधुरगीतिभिः । कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥७॥ इत्यनूर्जित एवार्थो नालङ्कारोऽपि तादृशः । सुकुमारतयेवेतदारोहति सतां मनः ॥ ७१ ॥
अस्य उदाहरणमाह मण्डलौति। कलापिनः मयूराः जोमूतमालिनि काले वर्षासु बर्हाणि पुच्छानि मण्डलीकृत्य विस्तार्य मधुरगीतिभिः मधुरगौतिसदृशखनैः इत्यर्थः कण्ठैः उपलक्षिताः सन्त: विशेषणे तौया। प्रनृत्यन्ति। वन मकारककारादीनां कोमलाक्षराणां मध्ये डकार रकारादियुक्ताक्षराणां परुषाणां निवेशात् रचनेयं सौकुमार्यमाश्रयति। अत्र च कलापिषु नर्तकव्यवहारसमारोपात् समासोक्तिरलझारः । तदुक्त दर्पणकारण, समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः । व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुन ॥ इति ॥७०॥
उक्तरूपसौकुमार्यस्य गुणत्वमनङ्गोकुर्वतो नव्यान् प्रत्याह इतौति। इति उक्तविधः अर्थः मण्डलीकृत्येति पद्यप्रतिपाद्य इत्यर्थः न ऊर्जितः न तेजस्वल एव न अतिमनोरम इत्यर्थः, अलङ्कारश्च समासोक्तिरूपः तादृशः वैचित्राजनकः न, तथापि एतत् पद्यं सुकुमारतया तादृशमौकुमार्यगुणयुक्ताक्षरविन्यासेन सतां सामाजिकानां न तु साधारणानामिति ध्वनि: मनः आरोहति आश्रयति मोहयतीति यावत् । अयं भावः अर्थालङ्कारौ हि अन्यविधी पदार्थों गुग्णस्तु न तथा, यतः अर्थस्य अलङ्कारस्य च बोधनात् पूर्वमेव गुणकतवैशिष्ट्य प्रतीयते गुणस्य विन्यासविशेषरूपत्वात्। उक्वञ्च, तया कवितया किं वा तया वनितया तथा। पदविन्यासमात्रेण यया न हियते ।