________________
प्रथमः परिच्छेदः ।
अनिष्ठुराचरप्रायं सुकुमारमिहेष्यते । बन्धशैथिल्यदोषस्तु दर्शितः सर्वकोमले ॥ ६८ ॥ अनुमन्यते अदुष्टतया लोकैः अङ्गीक्रियते तत्तच्छब्दप्रयोगे दोषानुसन्धानविरहेण साधारणानां वैरस्यानुदयात् इति भावः । उक्तञ्च, संवीतस्य हि लोकेऽस्मिन्न दोषान्वेषणं क्षमम् । शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावनम् ॥ इति । संवीतं हि अदुष्टतया सर्वजनव्यवहृतम् । अन्यश्च, ग्राम्यं घृणावदश्नीलामङ्गलार्थं यदौरितम् । तत् संवीतेषु गुप्तेषु लक्षितेषु न दुष्यति ।। इति । गुप्तेषु असभ्यार्थेषु असिद्धेषु अपि भावेन तदर्थबोधकेषु यथा, करिहस्तेन सम्बाधे प्रविश्यान्तर्विलोड़िते । उपसर्पन् ध्वजः पुंसः साधनान्तविराजते ॥ इत्यत्र सम्बाधपदेन सङ्घटार्थप्रसिद्धेनापि भावेन अप्रसिद्धस्य स्त्रीलिङ्गस्य बोधनम् । लचितेषु लचणया असभ्यार्थप्रतिपादकेषु यथा जन्मभूमिपदेन कुत्रचित् भावेन योनिबोधनम् । इति उक्तप्रकारेण माधुर्य्यं विभक्त ं विभज्य दर्शितम् अधुना सुकुमारता उच्यते ॥ ६८ ॥
अनिष्ठुराणि अपरुषाणि अक्षराणि प्रायो बाहुल्येन यव ताणं पद्यं सुकुमारं सौकुमार्य्यगुणयुक्तमित्यर्थः प्रायः पदेन अन्तरान्तरा परुषाक्षराण्यपि निवेशनीयानौति सूचितम् । तुशब्दोऽत्र हेतुवाचकः । यतः सर्वकोमले केवलसुकुमाराचरप्रयोगे बन्धस्य रचनायाः शैथिल्यदोषः श्लथत्वरूपदोषः श्रगाढ़ता इति यावत् दर्शितः पूर्वोक्त मयैव मालतीमालालोलालि कलिला यथा इति शेषः । तथाच कोमलाक्षराणां बहूनां मध्ये परुषाक्षरविन्यासेन बन्धस्य गाढ़तया यत् सहृदयहृद्यत्वं .. तदेव सौकुमार्य्यपदवाच्यं माणिक्यखचितमुक्तादामवत् इति सुधोभिर्वि भाव्यम् ॥ ६८ ॥
४
३७