________________
काव्यादरों खरं प्रहृत्य विश्रान्तः पुरुषो वीर्यवानिति। एवमादि न शंशन्ति मार्गयोरुभयोरपि ॥ ६७ ॥ भगिनी भगवत्यादि सर्ववैवानुमन्यते। विभक्तमिति माधुर्य्यमुच्यते सुकुमारता ॥ ६८॥
वाक्यगतामश्नोलतामुक्त्वा तदर्थगतां निर्दिशति खरमिति । कश्चित् वीर्यवान् पराक्रमशाली पुरुषः खरम् अतितीक्ष्ण यथा तथा प्रहृत्य शत्रूनिति शेषः विश्रान्त इति प्रकरणसङ्गतोऽर्थः, परं वीर्यवान् शुक्रल: कश्चित् पुरुषः खरं गाद यथा तथा प्रहृत्य मैथुनं कृत्वा विश्रान्त इत्यपि असभ्यार्थो वनादिवलक्ष्यण्येन प्रतीयते। न च अत्र वाक्यगतमश्लीलत्वमिति मन्तव्यं शब्दपरित्तिसहत्वासहत्वाभ्यां तव्यवस्थापनात् तथाहि यत्र शब्दपरिवृत्तावपि तदर्थप्रतौतिस्तत्र न शब्दगतत्व यत्र तु तथात्व न तदर्थ सम्भवस्तत्रैव शब्दगतनियमः, अत्र तु खरमित्यादिवाक्यस्थपदानाम् एकार्थमात्रप्रतिपादकानां प्रकरणबलात् प्रथमेऽर्थे प्रतीतेऽपि वक्त्रादिवैशिध्यात् अपरोऽपि पर्थो व्यञ्जनया वृत्त्या प्रतीयते । तथाचोक्त दर्पणकारेण यथा, अनेकार्थस्य शब्दस्य संयोगाद्यै नियन्त्रिते। एकत्रार्थेऽन्यधौहेतुव्यंजना साभिधाश्रया ॥ इति। न च अत्र वौर्यपदं विभिन्नयोर्बलशुक्रयोर्वाचकमिति वाचं बलस्य शुक्रजवेन एकमात्रपदार्थत्वात् इति। एवमादि दोषदूषितं काव्यम् उभयोरपि गौड़वैदर्भयोर्मागयोः न शंसन्ति न आद्रियन्ते विहांस इति शेषः ॥ ६७ ॥
ग्राम्यतायाः प्रतिप्रसवमाह भगिनीति। भगिनी भगवती पादिपदग्राह्यं योनिलिङ्गादिकच्च सर्वन काव्येषु व्यवहारेषु च