________________
३५.
प्रथमः परिच्छेदः। शब्देऽपि ग्राम्यतास्त्येव सा सभ्येतरकीर्तनात् । यथा यकारादिपदं रत्युत्सवनिरूपणे ॥ ६५ ॥ पदसन्धानवृत्त्या वा वाक्यार्थत्वेन वा पुनः । टुष्पतीतिकरं ग्राम्यं यथा या भवत: प्रिया ॥६६॥
__ ग्राम्यतायाः शब्दगतत्वमपि दर्शयति शब्देऽपौति । शब्देऽपि ग्राम्यता अस्त्रि एव, सा सभ्यं साधु तदितरम् असभ्यं ग्रामीणहालिकादिप्रयोज्यं वचनं तस्य कीर्तनात् विदग्धजनैः इति शेषः कथनात् भवतीति शेषः। यथा रत्युत्सवस्य निरूपणे यकारादिपदं यकार प्रादिर्यस्य तत् पदं यभ मैथुने इत्यस्मात् निष्यवं पदं यम्भनादिकमित्यर्थः । तादृशपदप्रयोक्त: ग्राम्यतया उपहसनीयत्वं श्रोतुश्च लज्जितत्वमेव जायते सुतरां रसास्वादस्य तिरोहितत्वात् म अत्र माधुर्यगुणप्रसर इति भाव: ॥६५॥
अनौलताया ग्राम्यतायामन्तर्भावमाह पदेति । पदानां सन्धान सम्प्रवेशो यस्मिन् तत् पदसन्धानं वाक्यसङ्घातेति पाठे स एवार्थः । तदृत्त्या तहतत्वेन वा अथवा वाक्यार्थत्वेन तदर्थगतत्वेन वा इत्यर्थः। दुर्दुवा प्रतीतिः दुष्प्रतीति: तत्करं लज्जा जुगुप्सामङ्गलादिव्यचक्रम् प्रश्नोलत्वमित्यर्थः अपि ग्राम्यं ग्राम्यतायामन्तर्भूतं तदपि माधुर्यव्याघातकमिति भावः यथा या भवतः प्रियेति पत्र या भवत इत्यंशे याम; मैथुने इत्यस्मात् घजि निष्यवः स विद्यते पस्येति याभवान् तस्येति प्रतीतो बौड़ाव्यश्चकत्वात् वाक्यमिदमलौलत्वदोषदूषितम् अतोऽत्र न माधुर्यसङ्गतिरिति भावः ॥ ६६ ॥