SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३४ काव्यादमें कामं कन्दर्पचाण्डालो मयि वामाचि । निर्दयः । त्वयि निर्मत्सरो दिष्ट्येत्यग्राम्योऽर्थो रसावहः ॥ ६४॥ नायिकासम्बोधने तु प्रिये सुन्दरि इत्यादि प्रयोग एव साधु:, तस्मादत्र अर्थस्य ग्राम्यता एव न तु कन्याशब्दस्य विदग्धानामपि भूरिशस्तत्प्रयोगदर्शनात् यथा कन्येयं कलधौतकोमलरुचिः कीर्त्तिस्तु नातः परेत्यादि । प्राचीनैस्तु ग्राम्यजनमात्रव्यवहृतानां कव्यादिशब्दानामेव ग्राम्यत्वमुक्तम् । इत्ययं ग्राम्य अर्थस्य आत्मा प्रतिपाद्यवस्तु वैरस्याय रसोद्दोधव्याघाताय प्रकल्पते प्रभवति । श्रयं भावः कामो नाम कामिनां सुरतेच्छारूपः कामिनौ कुचकलसवत् गूढ़मतिचमत्करोति, अगूढस्तु लज्जाजनकत्वेन वैरस्यमावहतीति न अत्र माधुर्य्यसद्भाव इति । अत्र च नायककामरूपकारणे सत्यपि नायिकाकामरूपस्य काय्र्यस्याभावात् विशेषोक्तिरलङ्कारः । तदुक्त दर्पणकारेण, सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा इति ॥ ६३ ॥ ग्राम्यतां दर्शयति काममिति । हे वामाक्षि ! वामे सुन्दरे कुटिले वा अक्षिणो यस्याः तत्सम्बुद्धौ । कन्दर्पचाण्डालः मयि निर्दयः, दिट्या भाग्येन त्वयि निर्मत्सर इति अग्राम्यः अर्थः विदग्धजनवाक्यार्थः रसम् आवहति पुष्णातीति रसावहः । अयं भावः वामाक्षीति सम्बोधनपदं नायिकाया: सौन्दर्य्यं नायकस्य च तां प्रति चाटूक्ति व्यञ्जयति, कन्दर्पो मयि निर्दयः त्वयि तु निर्मत्सर इत्यनेन श्रहं त्वां कामये त्वन्तु मां न कामयते इति पूर्वोक्तपद्यार्थ एव भङ्ग्या सूचित इति अग्राम्यता सहृदयहृदयङ्गमतया रसं व्यञ्जयन्तौ माधुर्य गुणम् आवइति इति ॥ ६४ ॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy