SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः । कामं सर्वोऽप्यलङ्कारो रसमर्थ निषिञ्चति । तथाप्यग्राम्यतेवैनं भारं वहति भूयसा ॥ ६२ ॥ कन्ये ! कामयमानं मां न त्वं कामयसे कथम् । इति ग्राम्योऽयमर्थात्मा वैरस्याय प्रकल्पते ॥६॥ मानुप्रासे वाक्ये माधुर्यमस्तौति च भावः । एकान्तेति पदेन यमकेऽपि रसावहं माधुर्यमस्त्येव परम् अनुप्रासयत् सम्यक् न इति वक्तव्यम् अन्यथा अस्य अनलङ्कारत्वापत्तिरापद्येत शब्दार्थशोभाजननेन काव्यात्मभूतरसोपकारित्वस्य एव अलङ्कारत्वात् इति ध्येयम्। अतः पश्चात् अलङ्कारप्रस्तावे इत्यर्थः विधास्यते वक्ष्यते यमकमिति शेषः ॥ ६१ ॥ शब्दगतं माधुर्य दर्शितमिदानीम् अर्थगं माधुर्यं दर्शयबाह काममिति। सर्वोऽपि शब्दगत: अर्थगतः उभयगतम अलङ्कारः अनुप्रासोपमा पुनरुक्तवत् आभासादिः अर्थे वाचलक्ष्यव्यङ्गरूपे प्रतिपाद्ये कामं यथेष्टं यथा तथा रसं निषिञ्चति पुष्णाति उद्बोधयतीत्यर्थः तथापि अग्राम्यता ग्राम्यः इतरजनव्यवहृतः शब्दोऽर्थश्च स न भवतीति अग्राम्यः तस्य भावः भूयसा बाहुल्येन एनं भारं रसनिषेकरूपं वहति तथाच अग्राम्यतापरिहतानाम् एव अलङ्काराणां रसपोषकत्वं सालङ्कारस्थ रसव्यञ्जकस्य एव अर्थस्य माधुर्यञ्चेति प्रतिपादितम्। भूयसा इति ग्रहणात् इतरजनकथनेषु ग्राम्यता न दोष: प्रत्युत गुण एव तदुक्त गुण इत्यनुवृत्तौ ग्राम्यत्वमधमोतिषु इति ॥ ६२ ॥ ग्राम्यताया उदाहरणं दर्शयति कन्ये इति। विदग्धजनोक्तिरियम् । हे कन्ये ! त्वं कामयमानं मां कथं न कामयसे इत्यत्र कन्ये इति सम्बोधनं दुहिटस्थानीयानामेव सम्भवति
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy