SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३ काव्याद” इत्यादि बन्धपारुष्यं शैथिल्यञ्च नियच्छति। . अतो नैवमनुप्रासं दाक्षिणात्याः प्रयुञ्जते ॥ ६ ॥ आवृत्तिं वर्णसङ्घातगोचरां यमकं विदुः । तत्तु नैकान्तमधुरमतः पश्चात् विधास्यते ॥ ६१ ॥ पूर्वोक्त पद्ये दोषमाह इत्यादौति। इत्यादि एवमादिकं सानुप्रासमपि पद्यं बन्धपारुष्यं बन्धे रचनायां पारुष्यं दुःश्रवत्वं शैथिल्यं पतप्रकर्षतादिकञ्च नियच्छति ज्ञापयति । अत्र पूर्वाई बहुविसर्गसत्तया पारुष्थम् । तदुक्तम्, अनुस्वारविसर्गौ तु पारुथाय निरन्तरौ इति । पूर्वार्द्ध यादृशी तीव्ररचना उत्तरार्द्ध तथा नेति पतप्रकर्षता। अतः कारणात् एवं सदोषमित्यर्थः अनुप्रासं दाक्षिणात्याः पण्डिता: न प्रयुञ्जते न व्यवहरन्ति माधुर्यस्य असद्भावादिति भावः । यत्र तुं पारुष्यादिके रसानुकूलतया माधुर्यमस्ति तत्र पारुष्यादिकं न दोषः प्रत्युत गुण एव । तथाचोक्तं, वक्तरि क्रोधसंयुक्त तथा वाच्ये समुद्धते । रौद्राद्रौ च रसेऽत्यन्तं दुःश्रवत्वं गुणो भवेत् इति ॥ ६ ॥ ननु अनुप्रासवत् यमकमपि कथमत्र न निरूप्यत इत्याह आत्तिमिति। वर्णसङ्घात: वर्णसमूह एव गोचरः विषयो यस्याः तथोक्ताम् आवृत्तिं पुनरुच्चारणं यमकं विदुः जानन्ति कवय इति शेषः। तदुक्तं दर्पणकारेण यथा, सत्यर्थे पृथगायाः खरव्यञ्जनसंहतेः। क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥ इति। तत् तु सयमकं पद्यं न एकान्तमधुरं न अतिशयेन माधुर्य्यवत् तथाहि तथाविधे वाक्ये प्रथमम् अर्थानुसन्धानव्यग्रतया रसप्रतीतर्व्यवहितत्वात् इति अनुप्रासे तु अर्थानुसन्धानव्यग्रताया अभावात् रसप्रतीतः अव्यवहितत्वमिति
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy