________________
प्रथमः परिच्छेदः।
३१
इत्यनुप्रासमिच्छन्ति नातिदूरान्तरश्रुतिम् । न तु रामामुखाम्भोजसदृशश्चन्द्रमा इति ॥ ५८॥ स्मरः खरः खलः कान्तः कायः कोपश्च नः कृशः । च्युतोमानोऽधिकोरागोमोहोजातोऽसवोगताः॥५६॥
प्रदूरतैवानुप्रासस्य प्रयोजकमित्याह इतीति। प्रतिदूरं समधिकम् अन्तरं व्यवधानं यस्याः सा अतिदूरान्तरा न पतिदूरान्तरा नातिदूरान्तरा, तादृशौ श्रुति श्रवणं यस्य तादृशम् इति पूर्वोक्तप्रकारम् अनुप्रासम् इच्छन्ति कवय इति शेषः रामामुखाम्भोजसदृशः चन्द्रमा इति एवंविधं तृतीयचतुर्थयोः पादयोः माकारयोः साम्येऽपि प्रतिदूरान्तरश्रुतिम् अनुप्रासमिति शेषः न तु इच्छन्तीति च शेषः ॥ ५८॥
अनुप्रासस्य रसावहत्वकीर्तनात् यत्र वाक्यस्य सदोषत्वेन रसस्य अपरिपुष्टता तत्र न माधुर्य्यसद्भाव इत्याह स्मर इति। स्मरः कामः खरः अतितीक्ष्णः, कान्तः प्रियः, खल: निष्ठुर:, मः अस्माकं कायः शरीरं कोपश्च कान्तं प्रतीति शेषः कशः क्षीण: नष्टश्च, मान: गौरवं च्युतः विनष्टः, रागः कान्तप्रात्यभिलाषः अधिकः, मोहः मूर्छा जातः क्षणे क्षण इति शेषः, प्रसवः प्राणा गताः प्रायेणेति शेषः । इदं नायकं निराकृतवत्याः गलितमानायाः कस्याश्चित् कामिन्याः पश्चात्तापवचनम्। पत्र प्रथमे पादे रकारयोः खकारयोश्च हितीये ककाराणां साम्यात् वृत्त्यनप्रासस्य तथा उत्तरार्दु तकारादिदन्त्यवर्णानां साम्यात् छेकानुप्रासस्य दोषाकुलतया तादृशविप्रलम्भशृङ्गारस न पतिपरिपोषकता इति बोध्यम् ॥ ५८ ॥