________________
काव्यादर्शे
चारु चान्द्रमसं भोरु ! विम्बं पश्यैतदम्बरे । मन्मनो मन्मथाक्रान्तं निर्दयं हन्तुमुद्यतम् ॥५७॥
३०
शकार-ककार - वकार नकार
उत्तंसे शिरोभूषणरूपे कुन्दस्तवकसत्रिभे माध्यकुसुमगुच्छसट्टशे चन्द्रे इन्द्रनोलनिभं श्यामलम् इत्यर्थः लक्ष्मः कलङ्कः अलिनः भ्रमरस्य श्रियं शोभां सन्दधाति धारयति । अत्र प्रथमद्दितीयतृतीयेषु पादेषु लकाराणां वर्णानां पुनरावृत्तिवशात् साम्यप्रतीतिरिति वृत्त्यनुप्रासः । चतुर्थे च दकार- धकार-तकार- नकाराणां दन्तरूपैकस्थानोचाय्र्यत्वात् श्रुत्यनुप्रास इति अनेन च अलङ्कारद्दयेन व्यष्जितं माधुर्य्यं शृङ्गाररसं पद्यनिष्ठं परिपुष्णाति । अत्र रूपकोपमाभ्यामनुप्राणिता निदर्शनानाम अलङ्कृतिः सुधीभिर्विभावनीया ॥ ५६ ॥
स्वरवैषम्मेण अनुप्रासो दर्शितः इदानीं तसादृश्येन दर्श यति चाविति । हे भीरु ! भयशीले! अम्बरे आकाशे एतत् परिदृश्यमानम् इत्यर्थः चारु मनोज्ञ मन्मथाक्रान्तं कामा मन्मनः मम मानसं निर्दयं यथा तथा हन्तुमुद्यतं चान्द्रमसं विम्बं चन्द्रमण्डलं पश्येत्यन्वयः । मानिनीं कामिनीं प्रति कस्यचित् नायकस्य उक्तिरियम् । इह प्रथमे पादे चकाररकारयोः स्वरसहितयोः सादृश्यात् वृत्त्यनुप्रासः । द्वितीयतृतीययोश्च यथाक्रमं म्बकारयोर्मन्ममन्मयोश्च साम्यात् छेकानुप्रासोऽपि । तथा चतुर्थे दकारयोस्तकारयोश्च स्वरवैषम्येण सादृश्यात् अन्यविधो वृत्त्यनुप्रासश्च । माधुर्य्यगुणोऽप्यत्र शब्दार्थोभयनिष्ठत्वेन चमत्कारजननात् विप्रलम्भाख्यं शृङ्गारं परिपुष्णाति
॥ ५७ ॥