________________
प्रथमः परिच्छेदः ।
पूर्वानुभवसंस्कारबोधिनी यद्यदूरता ॥ ५५ ॥ चन्द्रे शरन्निशोत्तंसे कुन्दस्तवकसन्निभे । इन्द्रनीलनिभं लक्ष्म सन्दधात्यलिनः श्रियम् ॥५६॥
२८
पद्यचतुर्थभागाः तेषु पदेषु तत्तत्पादस्थसुप्तिङन्तेषु च पादगत पदगत इत्यर्थः । पादेषु चेति बहुवचनेन सर्वपादेषु अनुप्रासस्थितिर्विशेषेण मनोरमेति सूचितम् । आवृत्तिश्च खर वैषम्येऽपि वैचित्रयमावहति । तथाचोक्तं दर्पणकारेण, अनु'प्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् इति । आवृत्तिय अव्यवहिता मुख्या, व्यवधानेऽपि पूर्वसंस्कारस्थित्यवधिकेत्याह पूर्वेति । पूर्वमुञ्चरितस्य वर्णस्य यः अनुभवः श्रावणज्ञानं तज्जनितः संस्कारः भावनाविशेषः तस्य बोधिनी पालनी अदूरता द्वितीयादिवर्णस्य सान्निध्यं यदि वर्त्तते इति शेषः तदैवानुप्रास इत्यन्वयः । अयं भावः संस्कारस्य प्रथमक्षणे उत्पत्तिः, द्वितीयक्षणे स्थितिः, तृतीयक्षणे निवृत्तिः इति नियमेन अव्यवधानेन किञ्चिदव्यवधानेन वा सादृश्यप्रतीतिजननात् वैचिचाजनकतादृशवर्णावृत्तिरनुप्रास इति निष्कर्षः । अयञ्च विविधः छेकानुप्रासः वृत्त्यनुप्रासश्च तदुक्तं दर्पणकारेण, छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा । अनेकस्यैकधा साम्यमसक्कद्दाप्यनेकधा । एकस्य सकृदप्येष वृत्त्यनुप्रास उच्यते ॥ इति । अपरश्च दर्पणकृतोक्तः यथा, शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्य्यमात्रतः । लाटानुप्रास इत्युक्त इति । उदाहृतञ्च तेनैव यथा, स्मेरराजीवनयने ! नयने किं निमीलिते । पश्य निर्जितकन्दर्पं कन्दर्पवशगं प्रियम् ॥ इति ॥ ५५ ॥
उदाहरति चन्द्रे इति । शरन्निशाया: शारदौयरजन्या
-