________________
२८
काव्यादर्श
ततः प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत्॥५३॥ इतीदं नातं गौडैरनुप्रासस्तु तत्यियः । अनुप्रासादपि प्रायो वैदभैरिदमिष्यते ॥ ५४ ॥ वर्णावृत्तिरनुप्रास: पादेषु च पदेषु च। अथवा ब्राह्मणानां प्रिय एष राजा यदा लक्ष्मी राजश्रियं प्राप्तवान् ततः प्रभृति लोके जगति धर्मस्य उत्सवः अभवत् । असौ धर्मेण प्रजाः पालयामास इत्यर्थः । इह षकारवकारयोः एकस्मात् मूर्ध्नः जकारयकारयोस्तालुत: दकारलकारयोथ दन्तादुचरितत्वेन सादृश्यमित्यतः श्रुत्यनुप्रासात् माधुर्यगुणपुष्टो राजविषयकरतिभाव इति विभावनीयम् ॥ ५३॥ .. ___ अत्र वैदर्भीगौड़योर्मतभेदं दर्शयबाह इतीति। इतिपदं पूर्वोक्तद्योतकम् इति पूर्वोक्तमिदं पद्यं गौड़ेः गौड़वासिभिः कविभिः न श्रादृतं माधुर्यगुणवत्तया न खोकतं विभिनवर्णानामकस्थानोच्चरितत्वेऽपि रसानुगुख्यस्थाननुभवादिति भावः । अनुप्रासस्तु वच्चमाणवर्णावत्तिरूपः तप्रियः तेषां गौड़ानां प्रियः रसानुकूल्यतया प्रादृतः। वैदर्भस्तु अनुप्रासात् पूर्वोक्तात् श्रुत्यनुप्रासादपि प्रायः बाहुल्येन इदम् एष राजेत्यादि पद्यम् इधते आद्रियते इत्यञ्च वैदर्भाणां श्रुत्यनुप्रास वर्णात्तिरूपानुप्रासयोरुभयोरेव प्रियता गौड़ानान्तु केदलं वर्णात्तिरूपे इति अनयोर्मतभेद इति दिक् ॥ ५४ ॥
अनुप्रासमाह, वर्णात्तिरिति। वर्णानां व्यञ्जनानाम् पाहत्तिः पुनरुच्चारणम् अनुप्रासः । उक्तञ्च प्रकाशकारेण वर्णसाम्यमनुप्रास इति। वर्णानामिति एकशेषहन्हवशात् वर्णस्य वर्मयोरपौति बोध्यम् । स च विविधः पादेषु पदेषु च पादाः